Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s19.4
- Language
- English
v3.c24.s19.4
तदूर्ध्वं ग्रीवमंशेन पूर्ववत्समलङ्कृतम् ।
अथवा मनुभागं तु हर्म्यतुङ्गं (ङ्ग्रे) विभाजते ॥ ४० ॥
सत्रिपादमधिष्ठानं तदूर्ध्वं चाङ्घ्रि भाजिते(तम्) ।
तदर्थं प्रस्तरोत्सेधं युगांशांघ्रि (शं ग्रोव) तुङ्गकम् ॥ ४१ ॥
तदर्धं शिखरोत्तुङ्गं तदूर्ध्वं स्तूपिकमंशकम् ।
ग्रोवमञ्जोर्ध्वमंशेन यथेष्टाधिष्ठानसंयुतम् ॥ ४२ ॥
तदूर्ध्वं च द्विभागेन कुर्याद्धर्म्यादिमण्डितम् ।
शेषं च कन्धरं प्रोक्तं पूर्ववत्समलङ्कृतम् ॥ ४३ ॥
अथवा हर्म्यतुङ्गे तु षोडशांशं विभाजिते ।
अधिष्ठानं द्विभागं स्यात्पादतुङ्गं युगांशकम् ॥ ४४ ॥
प्रस्तरं चाश्विनीभागं चोर्ध्वं भागं विशेषतः ।
मनु (मञ्च) भागं (गो) युगांशं स्यात्प्रस्तरं च द्विभागिकम् ॥ ४५ ॥
तत्समं ग्रीवतुङ्गं स्याद्युगांशं शे(शि) खरोदयम् ।
तदर्धं स्तूपिकोत्तुङ्गं चाटवर्गमिति (मतः) स्मृतम् ॥ ४६ ॥
मूलहर्म्यविशाले तु चाष्टभागं विभाजिते ।
षड्भागमूर्ध्वतले कुर्यात्तद्विस्तारमिति स्मृतम् ॥ ४७ ॥
ऊर्ध्वोङ्गं पूर्व(हर्म्य) वत्कुर्यात्सर्वालङ्कारसंयुतम् ।
तदेवाष्टांशकं चोर्ध्वं पादतुङ्गं द्वयंशकम् ॥ ४८ ॥
तदर्धं मञ्चतुङ्गं स्यात्तत्समं कन्घरोदयः ।
द्वयर्थाशं शिखरोत्तुङ्गं चाप्यर्धांशं शिरे (र उ) दयः ॥ ४९ ॥
ऊर्ध्वं पादोदये बन्धुभागमेकांश (शं) वेदिकम् ।
शेषं पूर्ववत्कुर्यादष्टवर्गविदो विदुः ॥ ५० ॥
वेदवृद्धाष्टभागं स्याज्जन्मादिस्तूपिकान्तकम् ।
अधिष्ठान (नं) युगांशं स्यात्पादा (दम) धिक(कं) पाल (लि) कांशकम् ॥ ५१ ॥
प्रस्तरोच्चं युगांशं स्यादूर्ध्वं पादं शरांशकम् ।
तदूर्ध्वं द्वयंरा(शं) मञ्चं स्याद्वेधिकोशं शिवांशकम् ॥ ५२ ॥
ग्रोवतुङ्गं द्विभागं स्याच्छिखरोच्चं वेदभागिकम् ।
स्तूपिकोशं द्विभागं स्यात्कुर्याद्धर्म्यादिमण्डितम् ॥ ५३ ॥
Linked texts (1)
- Mānasāra — Sanskrit