Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.10

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.10

Language
English

v3.c24.s34.10

भागमानवशाद् गण्यमानं यत्त्रोच्यते बुधैः ।
पूर्वैस्तु तुङ्गमानं तद्दशभागाद्विभाजिते ॥ १२४ ॥
द्विभागं चोपपीठोचं तस्मादेकांश(शं) कुट्टिमम् ।
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ १२५ ॥
तत्समं ग्रीवतुङ्गं स्यात्तद्वयं शिखरोदयम् ।
एकांशं तच्छिखोदयं शेषमानं तु पूर्ववत् ॥ १२६ ॥
एवमेकतलं प्रोक्तं द्वितलं (ल) भागमुच्यते ।
जन्मादिपूर्वपर्यन्तं नवपङ्कत्यंशकं भवेत् ॥ १२७ ॥
त्र्यंशं चोपपीठोच्चं कुट्टिमं च द्विभागिकम् ।
पाददीर्घ(दैर्घ्यं) युगांशं स्यात्सत्रिपादांश(शं) मञ्चकम् ॥ १२८ ॥
सत्रिपादद्वयांशं च मूलपादोदयं तथा ।
कपोतप्रतिरेकांशं वेदितुङ्गं तदर्धकम् ॥ १२६ ॥
ग्रीवोञ्चमेकभागं स्याच्छिखरोच्चं कलांशकम् ।
तदर्धं स्तूपिकोत्तुङ्गं शेषं प्रागुक्तवन्नयेत् ॥ १३० ॥
त्रितले पूर्ववत्तुङ्गं त्रिस्(त्रि)सप्तांश(शं) विभाजिते ।
चतुर्भागो(गमु)पपीठोच्चं सार्धांशं मसूरकम् ॥ १३१ ॥
गुह्वांशं पादतुङ्गं स्यात्कपोतं सार्धभागिकम् ।
सार्धद्वयांशं पादोचं प्रस्तरोच्चं शिवांशकम् ॥ १३२ ॥
सपादद्व्यंशका जङ्घा मञ्चायामं त्रिपादकम् ।
तदूर्ध्वेऽर्धांशं वेद्युञ्चं चोर्ध्वग्रीव(वं) शिवांशकम् ॥ १३३ ॥
ग्रीवद्वयसमं मूर्ध्नि ग्रीवतुल्यं शिखोदयम् ।
शेषं प्रागुक्तवद्दिष्टं चतुस्तलमिहोच्यते ॥ १३४ ॥
जन्मादि स्तूपिपर्यन्तं कृत्वैकं (क) त्रिशदंशकम् ।
षड्भागं चोपपीठोच्चं अंशा(शम)धिष्ठानमानकम् ॥ १३५ ॥
तद्द्वयं पाददीर्घ(दैर्घ्यं) तु सत्रिपादांश (शं) मञ्चकम् ।
सपादद्विं(त्र्यं)शकं पादं मञ्चतुङ्गं शिवांशकम् ॥ १३६ ॥
पादायामं गुह्यांशं स्यात्सपादांशं कपोतकम् ।
पादोनत्रिं(त्र्यं)शकं चोर्ध्वे पादायामं प्रकल्पयेत् ॥ १३७ ॥