Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.9
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.9
- Language
- English
v3.c24.s34.9
एवमेकतले प्रोक्तं द्वितले भागमुच्यते ।
कृत्वा द्विरष्टभागं षड्भूतांशं चोर्ध्वपादकम् ॥ ११० ॥
द्विभागं प्रस्तरोत्तुङ्गमेकांशं वेदितुङ्गकम् ।
कोष्ठकं गलतुङ्गं स्याद्वयंशं मस्तकोदयम् ॥ १११ ॥
तदर्धं स्तूपिकोत्सेधं शेषं तु पूर्ववद् भवेत् ।
तदुद्ध्वे(र्ध्वे) पञ्चविंशांशे कृत्वा च त्रितलं विदुः ॥ ११२ ॥
द्वितीयाङ्घ्र्योच्चं षड्भागं सार्धद्वयांशकं प्रति ।
तदूर्ध्वे सार्धपञ्चांशं पादायामं तृतीयकम् ॥ ११३ ॥
अन्तिमं च द्विभागं स्याद् वेदिकोदयमीरितम् ।
प्रोक्तमुतुङ्कलताभागं शिखरोच्चं युगाधिकम् ॥ ११४ ॥
स्तूपितुङ्ग(ङ्गं) द्वयं प्रोक्तं प्रत्यूर्ध्वादिशिखान्तकम् ।
नवाधिक्यं दशांशं तद्विभजेत्तु चतुस्त(स्त) ले ॥ ११५ ॥
तदंशो सार्धबन्धां(न्ध्यं) शं पादोच्चं सद्दि(वृदि)तीयकम् ।
अर्धाधिकशिवांशान्तं तदूर्ध्वं प्रस्तरमानकम् ॥ ११६ ॥
सार्धत्रिभाग(गं) पादोच्चं सपादांश(शं) कपोतकम् ।
सन्निपादद्वया(यम)ङ्घ्यिञ्च(च) प्रस्तरोच्चं शिवांशकम् ॥ ११७ ॥
वेदिकोच्चं तदर्धं स्याद् ग्रीवोच्चं सार्धभागिकम् ।
तद्द्वयं शिखरोत्तुङ्गं तदर्धं वच्छिखोदयम् ॥ ११८ ॥
प्रस्तरस्योपरिष्टात्तु स्तूपिकान्तोदयं तथा ।
षट्पञ्चभागिकं कृत्वा भूतांशं पादतुङ्गकम् ॥ ११९ ॥
नेत्रांशं प्रस्तरोत्तुङ्गं सार्धवेदा(दम)ङ्घ्रितुङ्गकम् ।
त्रिपादोपेतमेकांशं प्रस्तरोदयमीरितम् ॥ १२० ॥
सपाद्वेदा(दम)ङ्घ्रितुङ्गं स्यात्सार्धभागे(गम्) र्ध्वमञ्चकम् ।
सार्धबन्ध्या(न्ध्य)ङ्घ्रितुङ्गं च (स) पादांशं प्रस्तरोदयम् ॥ १२१ ॥
तदूर्ध्वे वेदि तुङ्गार्थं कन्धरं सार्धभागिकम् ।
तद्द्वयं शिखरतुङ्गं स्यात्पादांशं तच्छिखोदयम् ॥ १२२ ॥
एवं पञ्चतलं प्रोक्तं शेषं प्रागुक्तवद् भवेत् ।
अथवा द्वारशोभादि पादुकान्ते शिखान्तकम् ॥ १२३ ॥