Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.3

Language
English

v3.c24.s34.3

विस्तारात्पादहीनेन (राधिकेन) विस्ताराधविसानकम् ।
पञ्चषट्सप्तभागे तु द्विगुणं सार्धयुग्मकम् ॥ २६ ॥
द्विं (ह्यं) गार्धार्थं गुणांशं वा द्वारं सर्वोदयं भवेत् ।
सप्तद्भागविशालं स्यात्सप्ततुङ्गावशेन हि ॥ २७ ॥
तदुत्सेधार्थविस्तारं द्वारगोपुर (रं) विन्यसेत् ।
अथवा चोप (ध्ये) पीठं स्यान्मानं त्यक्त्वा तथोच्छ्रयम् ॥ २८ ॥
शान्तिकात् (दि) पञ्चधोतुङ्गं चा (म) धुना वक्ष्यते क्रमात् ।
गोपुरस्य विशालार्थं तत्तत्पादाधिकोदयम् ॥ २९ ॥
तदर्थाधिकमुत्सेधं तत्रिभागाधिकोन्नतम् ।
तत्समं चाधिकोतुङ्गं द्विगुणात्पादाधिकोन्नतम् ॥ ३० ॥
एवं तु पञ्चधा द्वारं (र) तुङ्गं सर्वेषु गोपुरे (रेषु) ।
अथवा हस्तमानेन द्वारमाने प्रवक्ष्यते ॥ ३१ ॥
एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
द्विहस्तान्तं द्वारविस्तारं द्वारशोभं तु पञ्चधा ॥ ३२ ॥
द्विहस्तादित्रिहस्तान्तं पञ्चधा द्वारविस्तृतम् ।
एवं तु द्वारशाले तु हस्तत्रय (यं) समारभेत् ॥ ३३ ॥
षट्षडङ्गुलवृद्धेन (द्वा च) चतुर्हस्तावसानकम् ।
पञ्चधा द्वारविस्तारं द्वारप्रासादमध्यमे ॥ ३४ ॥
चतुर्हस्तं समारभ्य पञ्चहस्तावसानकम् ।
द्वारहर्म्ये प्रवेशे तु द्वारतारं तु पञ्चधा ॥ ३५ ॥
पञ्चहस्तं समारभ्य हस्तषट्कावसानकम् ।
गोपुरे द्वारविस्तारं पञ्चधा परिकीर्तितम् ॥ ३६ ॥
अथवा द्वारशोभादिगोपुरान्तं यथाक्रमम् ।
एकद्वित्रिचतुष्पञ्चहस्तादौ [अ] रङ्गिवर्धनात् ॥ ३७ ॥
पञ्चषट्सप्तहस्तं च सा (चा) ष्टहस्तं नवान्तकम् ।
एतेभ्यो (षां) द्वारसर्वेषां विस्तारद्विगुणोन्नतम् ॥ ३८ ॥
देवानां द्वारमेवोक्तं मानुषाणां विशेषतः ।
द्विगुणाष्टांशहीने वा सप्तांशं चैकहीनकम् ॥ ३९ ॥