Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.4

Language
English

v3.c24.s34.4

षडंशांशैकहीनं वा पञ्चांशं चैकहीनकम् ।
चतुर्भागैकहीनं वा द्वारतुङ्गं प्रकल्पयेत् ॥ ४० ॥
उत्तराधो(धः) प्रदेशान्तं जन्मोर्ध्वं द्वारमारभेत् ।
द्वारोत्सेधमिदं कुर्यात्तत्सर्वे तद्द्वारपट्टिका ॥ ४१ ॥
शेषं युक्त्या प्रयुञ्जीयात्(ञ्जीत) द्वारमेवं तु सर्वशः ।
मूलहर्म्यवशाद्वक्ष्ये गोपुराणां च मानकम् ॥ ४२ ॥
मूलप्रासादविस्तारं(रं) समं वा पादमधिकम् ।
अथवात्य(ध्य) र्धविस्तारं पादोनद्विगुणं तु वा ॥ ४३ ॥
द्विगुणं वा प्रकर्तव्यं द्वारशोभादिविस्तारम् ।
प्रत्येकं पञ्चधा मानमायामं पूर्ववद्भवेत् ॥ ४४ ॥
मूलाधिष्ठानपादस्य समाधिष्ठानपादकम् ।
अथवाधिष्ठानपादोच्चं(चं) वेदभूतषडंशकम् ॥ ४५ ॥
सप्तकाष्टांशकं कृत्वा तत्तदेकैकहीनकम् ।
शेषं तद्द्वारशोभादीन्(नां) पादाधिष्ठानतुङ्गकम् ॥ ४६ ॥
उपपीठं विना कुर्याद् द्वारतुङ्गमिति स्मृतम् ।
शोभे(भके) चैकभूमिं(मिः) स्याद् द्वितीये द्वितलं भवेत् ॥ ४७ ॥
द्वारप्रासाददेशे तु त्रितलं चैव कारयेत् ।
हर्म्ये चतुस्तलं कुर्यात्तलं(लं) पञ्चक(कं) गोपुरम् ॥ ४८ ॥
अन्येषां महता(ति) देशे षोडशान्तं तलान्वितम् ।
एकत्रिपञ्चभूमादौ द्विद्विभूमिविवर्धनात् ॥ ४९ ॥
त्रिविधं चैकभूमी च ए(त्वे)कार्कतलसीमकम् ।
द्वित्रिवेदतलादौ च चतुर्दशतलान्तकम् ॥ ५० ॥
द्वितले च त्रिविधं प्रोक्तं द्विद्विभूमिविवर्धनात् ।
त्रितलात् पञ्चत्रयान्तं त्रितलं त्रिविधं प्रोक्तम् ॥ ५१ ॥
चतुःषडष्टभूमादौ षोडशान्तं तलसीमकम् ।
कन्यसं त्रिविधं प्रोक्तं कुर्यादेवं चतुस्तले ॥ ५२ ॥
पञ्चसप्ततलं(लं) नन्दतलादौ द्विद्विवर्धनात् ।
सप्ता(प्त)दशतलान्तं स्यात्त्रिविधं पञ्चभूमिके ॥ ५३ ॥