Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.5
- Language
- English
v3.c24.s34.5
देवानां मूलहर्म्यं स्यादधिकं च (र्त्यस्य हीनाधिक्यं) समोन्नतम् ।
शोभादिगोपुरे सर्वे(र्वेसिन्) चैवमुक्तं पुरातनैः ॥ ५४ ॥
नराणां मूलहर्म्यस्य समं हीनोन्नतं तु वा ।
मूलस्याधिकभूमिं चेद्राजराष्ट्रं विनश्यति ॥ ५५ ॥
एवं तु द्वारशोभे च चोक्तवत्कारयेद्बुधैः ।
अन्यथा द्वारदेशे तु यथाचोक्तमदाचरेत् ॥ ५६ ॥
द्वारपादोदयो(ये) वेदभागं कुर्याद्विचक्षणः ।
एकांशं चोपपीठार्थं तत्समं च मसूरकम् ॥ ५७ ॥
द्विभागं पादतुङ्गं स्यात्कारयेल्लक्षणान्वितम् ।
द्वारपादोदये धातुसङ्घिभागं विभाजिते ॥ ५८ ॥
उपपीठं शरांशं च वेदभागं मसूरकम् ।
अधिष्ठानं(नं) द्विगुणाङ्गिभित्तुङ्गमवे प्रकल्पयेत् ॥ ५९ ॥
द्वारपादोदये नन्दभागं कुर्याद्विचक्षणः(नस्त्रिभागिकम्) ।
उपपीठोदयं चाङ्घ्रिभागमेव(वं) मसूरकम् ॥ ६० ॥
तद्वयं पादतुङ्गे च कुर्यादेकोनविंशतिम् ।
भागं तद्द्वारपादोच्चे सप्तभागोपपीठकम् ॥ ६१ ॥
वेदभङ्ग(भाग)मधिष्ठानमष्टभागाङ्घ्रिभित्तुङ्गकम् ।
द्वारपादोदये चैव पङ्ग्क्तिभागमेवं विभाजिते ॥ ६२ ॥
उपपीठोदयं क्षिप्रं भागमंश(शं) मसूरकम् ।
तस्मान्तु(योस्तु) पादतुङ्गं च द्विभागं(गुणं) चैव कारयेत् ॥ ६३ ॥
द्वारपादोदयं(ये) चैव(क)विंशद् भागं विभाजिते ।
उपपीठोदयं चैव नवभागे प्रकल्पयेत् ॥ ६४ ॥
अधिष्ठानं वेदभागं तु वसुभागा(गम)ङ्घ्रितुङ्ककम् ।
एकादशविभागे तु द्वारपादोदयं भवेत् ॥ ६५ ॥
पञ्चांशं चोपपीठोच्चं द्व्यंशा(शम)धिष्ठान(नं) मानतः ।
पादतुङ्गं चतुर्भागमथवा द्वारपादके ॥ ६६ ॥
तुङ्गे च त्रयोविंशद् भागमेवं विभाजिते [तु] ।
एकादशो(शम्)पपीठं च चतुर्भागं मसूरकम् ॥ ६७॥