Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.6
- Language
- English
v3.c24.s34.6
वसुभागा(गम)ङ्गितुङ्गं स्यात्षड्भागं तु विभाजितं ।
त्रिभागं चोपपीठं तु शिवभाग(गं) मसूरकम् ॥ ६८ ॥
द्विभागं पादतुङ्गं स्यात्तदूर्ध्वं प्रस्तरादिकम् ।
शिखान्तं चोर्ध्वमाने तु वलानामधुनोच्यते ॥ ६९ ॥
अधिष्ठानसमं मञ्च (चं) तत्समं गलतुङ्गकम् ।
गलोश्वद्विगुणं प्रोक्तं शिखरस्योदयं न्यसेत् ॥ ७० ॥
शिखरार्ध्व (रार्धं) शिखोतुङ्गं स्तूपित्रयसमे (ममे) वच ।
एवमेकतलं प्रोक्तं द्वितलादितले (लमे) व च ॥ ७१ ॥
क्षुद्रमध्यं च मुख्यानां गोपुरे तु विशेषतः ।
प्रस्तरादिशिखान्तं स्याद् गण्यमानं प्रवक्ष्यते ॥ ७२ ॥
यस्याधिष्ठानमानं च तस्यमानवशो (शादु) च्यते ।
मसूरोच्चसमं वापि तदष्टांशोनमेव वा ॥ ७३ ॥
पञ्चषट्सप्तहीनं वा प्रस्तरोदयमेव च ।
ऊर्ध्वभूमाङ्घ्रिकोत्तुङ्गमधः पादवशो(शादु)च्यते ॥ ७४ ॥
अष्टसप्तक्रषट्पञ्चभागमेकोनमेव वा ।
तत्तद्भागोनमानं तु ऊ(चो)र्ध्वोर्ध्वचरणोदयम् ॥ ७५ ॥
तले तले प्रस्तराणां तु कारयेदेव मानतः ।
क्षुद्रगोपुरमेवं तु कारयेद् गण्यमानकम् ॥ ७६ ॥
नवमैकादशैकार्कमधिष्ठानोदयं भवेत् ।
तत्तद्भागार्धभागेन शेषं तत्प्रस्तरोदयम् ॥ ७७ ॥
अध(धः) पादोदयं तत्तद्भागेन चोर्ध्वपादकम् ।
प्रस्तरं (रस्य) चैव माने तु कारयेत्तु तले तले ॥ ७८ ॥
यस्य मानावसा(सा) नान्तं चोत्तरान्तं विधीयते ।
तदूर्ध्वं प्रस्तरं युक्तं तस्यार्ध(र्धा) चोर्ध्ववेदिका ॥ ७९ ॥
तदर्द्धयं गलतुङ्गं स्यात्प्रस्तरोच्चद्वयं शिरः ।
शिखरार्ध शिखोतुङ्गं तेषां गोपुरमेव च ॥ ८० ॥
एवं तु मध्यमाने तु गोपुराणां तु गण्यकम् ।
मुख्यगोपुरगण्यं तु वक्ष्यते विधिनाधुना ॥ ८१ ॥