Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.7

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.7

Language
English

v3.c24.s34.7

पूर्ववन्मैकसूमो(मसु)क्तं द्वितलादि विशेषतः ।
द्वारपादोदयं चैव द्वारविस्तारमानकम् ॥ ८२ ॥
उपपीठोदयं मानं मसूरकाङ्घ्रितुङ्गत्वकम् ।
शेषं प्रागुक्तवत्कुर्यादूर्ध्वमानं प्रवक्ष्यते ॥ ८३ ॥
अधिष्ठानत्रिपादं [तु] च ऊ(चो)र्ध्वपादं च(दस्य) तुङ्गत्वकम् ।
अथो(धः)पादत्रिपादं [तु] च ऊ(चो)र्ध्वपादोदयं भवेत् ॥ ८४ ॥
अधोमञ्चत्रिपादं [तु] च उ(चो)परि प्रस्तरं भवेत् ।
अथवा भूतषट्सप्तकाष्टनन्ददशांशकम् ॥ ८५ ॥
तत्तदेकैकहीनं वा चोर्ध्वपादाधिकोदयम् ।
तदर्धं वेदिकोत्तुङ्गं तद्द्वयं प्रोक्ततुङ्गत्वकम् ॥ ८६ ॥
ग्रीवतुङ्गत्वद्वयं चैव शिखरस्योदयं भवेत् ।
तदर्धं वष्ठिप्लोत्तुङ्गं द्वितले पञ्चकं शिखम् ॥ ८७ ॥
प्रस्तरं पूर्ववन्मानमादिपादादि पूर्ववत् ।
प्रस्तरोदयमाने यत्तदर्धं वेदिकोदयम् ॥ ८८ ॥
वेदिकाश्चो(चो)र्ध्वकान्तं(न्ता) स्यात्पूर्ववत्परिकल्पयेत् ।
द्वितुङ्गे त्रिद्विनेत्रं वा समनेत्रं समन्वितम् ॥ ८९ ॥
एवं त्रितलमाख्यातं चतुर्भूभ्यादि(दो)होच्यते ।
अर्धाधिष्ठानमानं षट्षड्भागं च विभाजिते ॥ ९० ॥
समं वा पादशरशं वा प्रस्तरोदयमीरितम् ।
भूतषड्विंशकं वापि चोर्ध्वपादोदयं तथा ॥ ९१ ॥
आदिप्रस्तरमानं तु त्रिपादं चोर्ध्वमञ्चकम् ।
वेद(दं) सार्ध(र्धं) शरांशं तु चोर्ध्वपादोदयं भवेत् ॥ ९२ ॥
सत्रिभागं द्विभागं स्याच्चोर्ध्वपादोर्ध्वमञ्चकम् ।
गुणसार्धं चतुर्भागमूर्ध्वपादंमथापि वा ॥ ९३ ॥
सार्धद्विभागं मञ्चं च वेदिकोच्चा(च्चम) र्धभागिकम् ।
तद्द्वयं गलतुलं स्यात् शि(च्छि) र (रा) भागं गलस्(लं) तथा ॥९४॥
शिर(रस्)तुङ्गाधंभागं तु स्तुपितुङ्गं प्रकल्पयेत् ।
नवसंख्या शिखा प्रोक्तं (क्ता) द्वितलं तु च पूर्ववत् ॥ ९५ ॥