Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.8
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.8
- Language
- English
v3.c24.s34.8
अथवा चतुरश्रं च स्तूपिरे(मे)कं चतुर्मुखम् ।
एवं चतुःस्थ(स्स्रं)लं प्रोक्तं पञ्चभूम्या (मम)धुनोच्यते ॥ ९६ ॥
पूर्ववद् भागमानेन प्रस्तरं पूर्ववद् भवेत् ।
सार्धभूतांशकं चैवमुपरिष्टा (चा) ङ्घ्रितुङ्गकम् ॥ ६७ ॥
द्वितीयं प्रस्तरोत्तुङ्गं सत्रिभागं द्विभागिकम् ।
ऊर्ध्वपाद(दं) शरांशं तु तृतीयं प्रस्तरोदयम् ॥ ६८ ॥
सार्धद्विभागमानेन ऊ (चो) र्ध्वपाद (दं) युगांशकम् ।
चतुर्थं प्रस्तरोत्सेधं सपादद्व्यंशकं भवेत् ॥ ६६ ॥
तदूर्ध्वाङघ्रियुगांशं तु पञ्चभाग (प्रस्तरं च) द्विभागिकम् ।
वेदिकांशं शिवांशं स्याद् ग्रीवांशं तु द्विभागिकम् ॥ १०० ॥
द्विभागं शिखरतुङ्गं स्यात् शि(च्छि) खराग्रे सच्छिलोदयम् ।
द्विललाटे महानासि चैकादशशिखान्वितम् ॥ १०१ ॥
अन्येषां च तलानां च प्रस्तरादि च पूर्ववत् ।
पादानामपि सर्वेषां प्रस्तराणां तल्ले तले ॥ १०२ ॥
एवं माने प्रकुर्वीत वेदिकादिगळान्वितम् ।
शिखरादि शिखामाने पूर्ववद्युक्तितो न्यसेत् ॥ १०३ ॥
अथवा द्वारशोभादि गोपुराणां विशेषतः ।
विस्ताराद्विगुणोत्सेधं जन्मादिस्तूपिकान्तकम् ॥ १०४ ॥
द्विगुणार्धं च हीनं वा चाधिक्यं च त्रिधोन्नसम् ।
सार्धं तु द्विगुणोत्सेधं पादोनं द्विगुणोन्नतम् ॥ १०५ ॥
क्षुद्रगोपुरमेवं तु मध्यमं तत्रवच्यते ।
क्षुद्रान्तु पादहीनं वा सा (चा) र्धहीनोदयं तु वा ॥ १०६ ॥
एवं तु मध्यमं प्रोक्त मध्यमत्यादहीनकम् ।
विस्तारादर्थमुत्सेधं मुख्यगोपुरमेव च ॥ १०७ ॥
पूर्ववत्प्रस्तराद्यन्तं चोर्ध्वं स्तूपिकान्तकम् ।
गण्यमाने च सर्वेषां भागमाने (न) वशो(शादु) च्यते ॥ १०८ ॥
तच्चतुर्भागिकं कृत्वा ए ( चै) कभागं गलोदयम् ।
शिखरोच्च (चं) द्विभागं कुर्यादेकांशं तच्छिलोदयम् ॥ १०६ ॥