Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.12
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.12
- Language
- English
v3.c24.s35.12
सद्गवाहाद्यष्टांशेन(ना) लिन्द्रं(न्वं) कुर्याद् विचक्षणः ।
तत्पुरे पृष्ठपार्श्वे तु भ्रम(भ्रा)लिन्द्रे(न्दमे)कमागतः ॥ १५२ ॥
तद्युत्कर्णदेशे तु कर्करी(रीं) चाहभद्रक(का)म् ।
ऊर्ध्वकूटसभायुक्तं द्वारभद्रैस्तु संयुतम् ॥ १५३ ॥
तन्मुखे पुरतः पार्श्वे द्वारसंयुक्तभद्रकम् ।
तत्कर्णे च द्वयोर्भद्रं चतुर्थं कर्करीकृतम् ॥ १५४ ॥
कर्करीभद्रसंयुक्तं मण्डपस्य विशालकम् ।
एकद्वित्र्यं(इयं)कभागं स्यात्कर्करीभद्रनिर्गमम् ॥ १५५ ॥
मध्ये भद्रे तु विस्तारं पञ्चषड्भागमेव वा ।
तत्समं निर्गमं वापि द्वित्रिवेद्रांशमेव वा ॥ १५६ ॥
भद्रैस्त (द्वं त) त्पुरपार्श्वे तु कुर्याद् द्वारं तदंशक (दायत) म् ।
एकद्वित्रितलं मध्ये मण्डपे चोर्ध्वकूटकम् ॥ १५७ ॥
एवं तु मालिकाकारं शेषं प्रागुक्तवन्नयेत् ।
सर्वालङ्कारसंयुक्तं माल्याकृत (लाकृति) मितीरितम् ॥ १५८ ॥
देवरालोकनयोग्यं देवदेवस्य मण्डपम् ।
एवं तु मण्डपं प्रोक्तं देवभूसुरभूपतेः ॥ १५६ ॥
विस्तारे चैकभक्त्ये (त्त्या) वा यथेशायमवर्धनात् ।
सर्वेषां मण्डपानां तु पूर्वोक्तानां तदायतम् ॥ १६० ॥
द्विशक्तिविस्तृतं तस्मात् ए(दे) कभागाधिकायतम् ।
मध्येकभक्तिवासं स्यात्पुर(रः) पार्श्वे च मण्डपम् ॥ १६१ ॥
आत्मार्थं विप्रसङ्घे तु यजनार्थमुदीरितम् ।
तदेव द्विगुणायामं मध्यरङ्गं (ङ्गं) द्विभागतः ॥ १६२ ॥
तत्पार्श्वे चैकभागेन वासे कुर्याद् विचक्षणः ।
तत्पुरेऽलिन्दमेकांशमथवा निर्वासमण्डपम् ॥ १६३ ॥
अथवा वंशमूले तु चैकद्वि (द्वयं) शेन वासकम् ।
एवं तु विप्रयोग्यं स्यान्नन्दाख्यं तु मण्डपम् ॥ १६४ ॥
त्रिभक्ति विस्तृतं तस्मात् ए(दे) कभागाधिकायतम् ।
तदर्धेन द्विभागेन मण्डपं चोन्नतासनम् ॥ १६५ ॥
Linked texts (1)
- Mānasāra — Sanskrit