Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.13
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.13
- Language
- English
v3.c24.s35.13
पृष्ठं च पार्श्वयोः कुड्यं पुरतो पादसंमि(यु)तम् ।
तन्मुखे द्वित्रिभागेन निर्गमं चासनसंयुतम् ॥ १६६ ॥ 332
कर्णौ लाङ्गलभित्तिः स्याद् भ्रमरावृतपादकम् ।
एकांशेनाङ्घ्रिसंयुक्तं पुर(रः) पार्श्वे तु (च) भद्रकम् ॥ १६७ ॥
धनाधिपमण्डपं स्याद् देवभूसुरयोग्यकम् ।
तदेव मध्याङ्घ्रिसंयुक्तं चौरार्थं द्विजभूपतेः ॥ १६८ ॥ 336
तदेव भागाधिकायाममिष्टदिग्गतभित्तिकम् ।
भूपतीनां च वैश्यानां कोशरत्नादियाग्यकम् ॥ १६६ ॥
तदेवाधिकमायामं मध्यभागाङ्कुशं भवेत् ।
एकभागावृतावासमिष्टदिग्गतभित्तिकम् ॥ १७० ॥ 340
आयाममध्यसूत्रं तु(तस्य) वामे द्वारं प्रकल्पयेत् ।
कर्णौ(र्यो ए)कर्करीभद्रं स्याद् भ्रमरांशेन पूर्ववत् ॥ १७१ ॥
शूद्राणां च इ(चे)ति प्रोक्तं धान्यागारमथ नाम कम् ।
चतुरंशं विस्तारं स्यात् ए(दे)कभागाधिकायतम् ॥ १७२ ॥ 344
पञ्चाश दंशकेनैव मण्डपं परिकल्पयेत् ।
तन्मुखेव(त्वेक)त्रिभागेन निर्गमं भद्रविस्तृतम् ॥ १७३ ॥
तत्पुरे तु द्विपार्श्वे वा प्रपां चैकेन कारयेत् ।
भद्रान्तं कुड्यसंयुक्तं मण्डपं पृष्ठपार्श्वयोः ॥ १७४ ॥ 348
देवतानां च मौनार्थं भूषणारव्यं तु मण्डपम् ।
तदेकभागाधिकायामं विस्तारं पूर्ववद् भवेत् ॥ १७५ ॥
तद्भागार्द्धभागेन विस्तारं मण्डपं भवेत् ।
द्वित्रिभागाङ्ग्या पूर्वा ए(चै)कभागं खलूरकम् ॥ १७६ ॥ 352
मण्डपं तु (पस्य) विना दीर्धे (दैर्घ्यं) द्वारं कुर्याद् विचक्षणः ।
भूषणारव्यं च विप्राणां योग्यं पुंसवनाार्थकम् ॥ १७७ ॥
तदेव भागाधिकायामं विस्तारं पूर्ववद् भवेत् ।
त्रिचतुर्भागमायामं मण्डपं परितो भवेत् ॥ १७८ ॥ 356
एवं सुभूषणारव्यं स्याच्छ्रेष्ठं पूर्वोक्तवर्जयत् ।
भूसुरादिव्रयानां चोपनयनादियोग्यकम् ॥ १७६ ॥
Linked texts (1)
- Mānasāra — Sanskrit