Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.14
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.14
- Language
- English
v3.c24.s35.14
वेदाष्टांशविस्तारमायामं [च] मण्डपं भवेत् ।
वंशे मूलाग्रयोः सन्धिर्द्वि(न्धिं द्वि)चतुर्भागेन कारयेत् ॥ १८० ॥
एकद्विवासयोर्मध्ये द्विचतुर्भागाङ्गुलं भवेत् ।
एतत्पार्श्वे द्वयोश्चै(यं चै)कं चा(च)तुर्भागेन द्वारक्रम् ॥ १८१ ॥
दीर्घे(दैर्घ्यं) च मध्य सूत्रं तु(तस्य) वामे द्वारं प्रकल्पयेत् ।
अथवा तस्य मध्ये तु कुड्यावा(व्या)से विभाजिते ॥ १८२ ॥
कुक्षाभ(ह) द्वारसंयुक्तं शेषं युक्त्या प्रयोजयेत् ।
एवं तु भूषनाख्ये स्यात् शू(च्छू)द्राणां पचनालयम् ॥ १८३ ॥
तद् द्विभागेन विस्तारे तस्माद् द्वि(द्वयं)शाधिकायतम् ।
पञ्चांशेन द्विभागेन पूर्ववद् द्वारसंयुक्तम् ॥ १८४ ॥
वासमेतद्(क)द्वयोर्मध्ये त्रित्रिभागाङ्गुलं भवेत् ।
एकांशेन त्रिभागेन पार्श्वे द्वारं प्रयोजयेत् ॥ १८५ ॥
तद्बाह्ये परितोऽलिन्द्रमेकभागेन कारयेत् ।
दीर्घे(दैर्घ्यं) मध्यमभागे तु द्वारं संकल्पयेत्सुधीः ॥ १८६ ॥
एकद्वित्रिभागेन निर्गमं भद्रविस्तृतम् ।
एवं तु मण्डपं हर्म्यं देवभूसुरभूपतेः ॥ १८७ ॥
पचनार्थमिति प्रोक्तं नानावल्लङ्कारैरपि ।
तस्माद् द्व्यधिकायामं विस्तारे पूर्ववद् भवेत् ॥ १८८ ॥
तन्मध्ये चाङ्गुशां(शमं)शेन परितो द्वि(द्व्यं)शेन मण्डपम् ।
तस्वान्तं चैकभागेन परितस्तु खलूरिका ॥ १८९ ॥
तद्दीर्घ(दैर्घ्यं) मध्यसूत्रानु(तस्य) वामे द्वारं प्रकल्पयेत् ।
शेषं तु पूर्ववत्कुर्यान्मण्डपं इत्थमीरितम् ॥ १९० ॥
सर्वेषामपि वर्णानां बालालोकनयोग्यकम् ।
षड्भागविस्तृतं चैव सप्तभागायतं तथा ॥ १९१ ॥
तद्भागेन द्वित्रिभागेन मध्यरङ्गं प्रकल्पयेत् ।
मध्यस्तम्भानपरित्यज्य परितः द्व्यंशेन मण्डपम् ॥ १९२ ॥
तद्वाह्ये चामृतांशेन भूपुतालिन्दसंयुक्तम् ।
चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलभित्तिकम् ॥ १९३ ॥
Linked texts (1)
- Mānasāra — Sanskrit