Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.15

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.15

Language
English

v3.c24.s35.15

चतुर्दिग्भद्रसंयुक्तमेकद्वित्रिकभागिकम् ।
देवानां च विलासार्थं शृङ्गारारूयं तु मण्डपम् ॥ १६४ ॥
आयामं चाष्टभागेन विस्तारं पूर्ववद् भवेत् ।
तद्भागे द्विचतुर्भागं तन्मध्ये चाङ्गणं भवेत् ॥ १६५ ॥
तद्वहिश्चावृतांशेन कुर्यात्तत्तदलिन्द्र(न्द)कम् ।
तद्वहिश्चावृतांशेन मण्डपं द्वि(द्व्यं)शमेव वा ॥ १६६ ॥
चतुर्वासं चतुष्कर्णे द्विद्विभागेन योजयेत् ।
तद्वहिश्चैकभागेन परितो वारमिष्यते ॥ १६७॥
तद्दीर्घे(दैर्घ्य) मध्यसूत्रं तु(तस्य) वामे द्वारं तु पूर्ववत् ।
वंशमूलाग्रयोः सर्वे(र्वं) कर्करीकृतनेत्रकम् ॥ १६८ ॥
द्व्यंशैकं तत्र विस्तारं निर्गमं भद्रसंयुक्तम् ।
सर्वेषामपि वर्णानां सू(सु)तं सर्वदेशिकम् ॥ १६६ ॥
चतुर्भागाधिकायामं विस्तारं पूर्ववद् भवेत् ।
ललाटे द्व्यंशविस्तारं रसभागं तदायतम् ॥ २०० ॥
पुरतः पृष्ठवामे(भागे) तु ए(चै) कभागेनालिन्द्र(नालिन्द)कम् ।
वंशमूले तु वासं स्यात्कुर्यात्तु द्वित्रिभागः ॥ २०१ ॥
शेषं प्रागुक्तवत्सर्वं युक्त्वा तत्रैव योजयेत् ।
तदेवाग्रे चतुर्भागं चोक्तबन्मण्डपं तु वा ॥ २०२ ॥
केचित्षडष्टभागेन विस्तारायाम(मं) कल्पयेत् ।
ललाटे द्वि(द्व्यं)शषड्भागं विस्तारायाम (मं) मण्डपम् ॥ २०३ ॥
एकांशे तत्पुरेऽलिन्द्रं(न्दं) द्वित्रिभागाङ्गणं भवेत् ।
तत्पुरे पार्श्वयोः शेषं महावा (द्वा) रं तु कल्पयेत् ॥ २०४ ॥
ललाटे द्वि(द्व्यं)शविस्तारमा (रा)यामं मण्डपं भवेत् ।
एवं तु प्रागतं प्रोक्तं सर्वकर्मसुखावहम् ॥ २०५ ॥
सप्तांशं तु(क्रम) विस्तारं नवभागं तदायतम् ।
त्रिभागं(गेन) पञ्चभागेन चाङ्गणं विस्तृतायतम् ॥ २०६ ॥
तद्वहिश्च द्विभागेन परितो मण्डपं भवेत् ।
अथवा तत्रिभागेन ललाटे मण्डपं भवेत् ॥ २०७ ॥