Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.3
- Language
- English
v3.c24.s35.3
अथवा तन्मुखे कुर्यादेकद्वित्रि च मण्डपम् ।
स्नपनं प्रतिमाङ्गानां गीतनृत्यार्थमण्डपम् ॥ २६ ॥
मण्डपं द्वितीयं चैतत् भ्र(द) भ्रमण्डप(पं) तन्मुखे [च] ।
आदौ चाप्यपनार्थं स्नात्प्रतिमामण्डपं तथा ॥ २७ ॥
तत्रैव मण्डपं कुर्यात्प्रतिमामण्डपं बुधः ।
त्रिचतुः (तुष्) पञ्चषट्सप्तचाष्टरन्ध्रं वि(द्वि) भित्तिकम् ॥ २८ ॥
प्रथमप्रस्तरान्तं च भित्तिरे(मे)कं(कां) प्रकल्पयेत् ।
तस्मात्सप्तै कपङ्क्त्यन्यमेकभागैर्विवर्धनात् ॥ २९ ॥
मण्डपानां च सप्तानां प्रत्येकं पञ्चधा भवेत् ।
एवं तु चतुरश्रं स्यात्तत्साधेकेन वर्धनात् ॥ ३० ॥
तत्समाधिकायामं समं वा चायत्तं तु वा ।
युग्मभित्तिश(मृ) च यः (या) कुर्यान्मन्यस्तम्भान्परित्यजेत् ॥ ३१ ॥
तत्त्वधिष्ठान(ने) पादं च प्रस्तरं च त्रिवर्गकम् ।
तदूर्ध्वे मण्डपानां (न्तं) च चूलिकार्क्यो हर्म्यकम् ॥ ३२ ॥
अन्तर(रं) प्रस्तरोपेतं कुर्यात्तु समलङ्कृतम् ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ३३ ॥
हर्म्योपपीठयुक्तं चेत्सोपपीठादिमण्डपम् ।
पीतोपपीठहर्म्यं चेन्मण्डपं च त्रिवर्गकम् ॥ ३४ ॥
हर्म्यं च (म्यंस्व) विपरीतं चेत्स्वामिनो मरणं ध्रुवम् ।
प्रस्तरं तत्र यत्तत्र प्रासादवदलङ्कृतम् ॥ ३५ ॥
प्रासादवदलङ्कृत्य चाधिकालङ्कृतं तु वा ।
बाह्यं चाक्षयवद् भूष्यं मण्डपान्तमितीष्यते ॥ ३६ ॥
तेषां क्रमेण विन्यासं (स) लक्षणं वक्ष्यतेऽधुना ।
चतुरश्रसमाकारं सममानं त्रिभिप्ति(भक्ति)कम् ॥ ३७ ॥
षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ।
चतुर्दिक्(ग्) भद्रविस्तारमेकभागेन निर्गमम् ॥ ३८ ॥
चतुरश्रं चतुर्भक्तिः षोडशस्तम्भसंयुतम् ।
चतुर्दिक्षु चतुर्द्वारमेकभागेन भद्रकम् ॥ ३९ ॥
Linked texts (1)
- Mānasāra — Sanskrit