Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.4
- Language
- English
v3.c24.s35.4
द्वात्रिंशत्क्षुद्रनास्यङ्गं शेषं प्रागुक्तवन्नयेत् ।
षड्भागं चतुरश्रं स्यात् षट्त्रिंशत्पादसंयुतम् ॥ ४० ॥
चतुर्दिक्षु चतुर्द्वारं मध्यपादान्परित्यजेत् ।
द्विमक्तौ(त्त्या) भक्त(भित्ति)विस्तारमेकभागेन निर्गमम् ॥ ४१ ॥
द्वात्रिंशत्क्षुद्रनास्यङ्गं सर्वालङ्कारसंयुतम् ।
चतुःपञ्चाङ्घ्रिसंयुक्तं सप्तसप्तद्वि(त्रि)भागिकम् ॥ ४२ ॥
चतुष्पादं त्यजेन्मध्ये चतुर्द्वारं चतुर्दिशि ।
त्रिभक्तिविस्तृतं भद्रमेकभागेन निर्गमम् ॥ ४३ ॥
षष्ठरङ्घ्रिकयुक्तं वापि तन्मध्ये चोर्ध्वकूटकम् ।
चत्वारिंशत्तु नास्यङ्गं शेषं पूर्ववदाचरेत् ॥ ४४ ॥
चतुराष्टाष्टभित्ति(भक्ति)श्च चतुःपञ्चाङ्घ्रिसंयुतम् ।
चतुर्दिक्षु चतुर्द्वारं मध्यपादान्परित्यजेत् ॥ ४५ ॥
चतुर्भागेन भद्रं स्यादेकभागेन निर्गमम् ।
पूर्ववत्क्षुद्रनास्यङ्गं युक्त्या तत्रैव योजयेत् ॥ ४६ ॥
नन्दनन्दविभागेन विस्तारायामत्त(मस्त)त्समम् ।
कल्पयेन्नवरङ्गं स्यात्षट्पद्पादान्परित्यजेत् ॥ ४७ ॥
नन्दाष्टभागसंयुक्तं त्रिभागीकेन भद्रकम् ।
चतुर्दिक्षु चतुर्द्वारं तत्तदग्रे सभद्रकम् ॥ ४८ ॥
सर्वालङ्कारसंयुक्तं षष्ठष्टे बाल्यनासिका ।
तन्मध्ये चोर्ध्वतुङ्गं(कूटं) स्याल्ललाटाङ्घ्रिअनासिकम् ॥ ४९ ॥
तदेवषोडशस्तम्भं त्यजेत्कर्णेचतुष्टये ।
चतुर्दिक्षु चतुर्भागं(द्वारं) वेदभागीकभद्रकम् ॥ ५० ॥
सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् ।
एकादशभागेन [च] मण्डपं चतुरश्रकम् ॥ ५१ ॥
सालिन्द्रं(न्दं) नवरङ्गं स्यादष्टोत्तरशताङ्घ्रिकम् ।
तद्बहिःपरितोलिन्द्र(न्द)मेकभागेन कारयेत् ॥ ५२ ॥
चतुर्दिक् पञ्चभागेन भद्रं चांशेन निर्गमम् ।
चतुर्दिक्षु चतुर्द्वारं चतुःपञ्चाल्पनासिकम् ॥ ५३ ॥
Linked texts (1)
- Mānasāra — Sanskrit