Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.5

Language
English

v3.c24.s35.5

नभो(वो)र्ध्वं कूटसंयुक्तं सर्वालङ्कारसंयुतम् ।
एवं तु चतुरश्रं स्यात्तदायाममिहोच्यते ॥ ५४ ॥
त्रिभक्ति विस्तृतं चैव षड्भक्त्यायाम(मं) कल्पयेत् ।
मूलाग्रे द्वारसंयुक्तं पार्श्वे द्वारं न योजयेत् ॥ ५५ ॥
अथवा हीनाधिकांशेन दीर्घ(दैर्घ्य) मध्ये प्रवेशनम् ।
अंशोनावृतमालिन्दं स्यात् शे(च्छे) षं प्रागुक्तवन्नयेत् ॥ ५६ ॥
चतुर्भाग(गं) विशाले तु चाष्टभागा(गमा)यतं तथा ।
द्व्यंशषड्भाग(गं) विस्तारं दीर्घ(दैर्घ्य) मध्ये च मण्डपम् ॥ ५७ ॥
परितस्तस्य बाह्ये तु भागेनाळिन्द्र(न्द) मिष्यते ।
यथेष्टद्वारसंयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ ५८ ॥
भूतभागेन विस्तारं दशभागं तथायतम् ।
तन्मध्ये त्र्यंशविस्तारं चाष्टांशायाममण्डपम् ॥ ५९ ॥
तबहिः परितो वा(द्वा) रमेकभागेन कारयेत् ।
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ६० ॥
षड्भागेन विशालं स्यात्सप्तमेनाधिकायतम् ।
द्विभागं मध्यरङ्गं स्यात्परितो द्व्यंशेन मण्डपम् ॥ ६१ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
विस्तारं चाष्टभागं स्यादायमं षोडशांशकम् ॥ ६२ ॥
तन्मध्ये वेदभागेन द्वादशांशेन मण्डपम् ।
परितः द्व्यंशेनाळिन्द्रं(न्दं) स्याच्छेषं पूर्ववदाचरेत् ॥ ६३ ॥
नवभागेन विस्तारं चाष्टादशांशमायतम् ।
त्रिभागे द्वादशांशेन मध्यरङ्गं प्रकल्पयेत् ॥ ६४ ॥
तद्बाह्येऽळिन्द्र(न्द) मंशेन परितो द्वि(द्वां) शेन मण्डपम् ।
अथवा चैकभागे तु चान्तर्बाह्येत्वलिन्द्र(न्द)कम् ॥ ६५ ॥
चतुष्कर्णे चतुर्मा(र्वां) शे चेष्टदिग्गतभित्तिकम् ।
उच्चवद् द्वारसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ६६ ॥
विशाले दशभागे तु विंशत्यंशं तथायतम् ।
परितोऽळिन्द्र(न्दं) भागं स्याद्विस्तारं द्विगुणाग्रतम् ॥ ६७ ॥

Linked texts (1)