Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.6
- Language
- English
v3.c24.s35.6
मध्यत्रिभागविस्तारं तत्कान्त(न्तो) द्वि(ष्ट्रं)शमण्डपम् ।
तत्कान्तश्चैकभागेन चावृतालिन्द्र(न्द) मिष्यते ॥ ६८ ॥
मध्ये च द्वि(ह्यं)शविस्तारं द्वादशायतनं तथा ।
एवं तु मण्डपाकारं शेषं प्रागुक्तवन्नयेत् ॥ ६९ ॥
विस्तारे(रं) रुद्रभागं स्याद्विस्तारं द्वि(शद्भि)र्गुयायतम् ।
मध्ये त्रिभागविस्तारं मनुभागायतं तथा ॥ ७० ॥
कुर्यान्मण्डप(पं) बाह्ये तु सर्वं प्रागुक्तवन्नयेत् ।
विस्तारे रुद्रभागं स्याद्विस्ताराद् द्विगुयायतम् ॥ ७१ ॥
यन्मामध्येड्डु(ङ्ग)शं कुर्यात्पञ्चभागेन विस्तृतम् ।
परितोऽशेनलिङ्गं (मण्डपं) स्याद् द्वांशेनावृतालिख(न्द)कम् ॥ ७२ ॥
अथवा सप्ताङ्गुविस्तरं द्विनेत्रांशं क्रथांचितम् ।
तद्वाह्ये तु द्विभागेन मण्डपं परितस्तथा ॥ ७३ ॥
तदेवांशाधिकं स्याद् दीर्घं (दैर्घ्यं) द्वित्रिमण्डपम् ।
प्रत्येकं पञ्चभागेन सभा कूटं च मण्डपम् ॥ ७४ ॥
अथवा मण्डपाकारं युक्त्या तत्रैव योजयेत् ।
चतुर्दिक्षु चतुर्द्वारं कुर्याद् भद्रैरलंङ्कृतम् ॥ ७५ ॥
एवं तु मण्डपं प्रोक्तं तन्नाममि (म इ) होच्यते ।
प्रथमं द्विमर्जं चैव ततो निषद्जं भवेत् ॥ ७६ ॥
तृतीयं विजयं (न्ध्यजं) चैव चतुर्थं माल्यजं तथा ।
पञ्चमं पारियात्रं च षष्ठं स्याद् गन्धमादनम् ॥ ७७ ॥
सप्तमं हेमकूटं स्यान्मण्डपाख्यानि सप्तकम् ।
एवं हर्म्यमुखे कुर्यादन्यत्सर्वमिहोच्यते ॥ ७८ ॥
एकादश चतुरंशं स्यात आ(दा)यताश्रकमेव च ।
अंशोनावृतवा (द्वा) रं स्याच्चतुद्वारं चतुर्दिशि ॥ ७९ ॥
एकभागेन भद्रं स्यात्सर्वालङ्कारसंयुतम् ।
एवं तु मेरुनं प्रोक्तं पुस्तकार्तनयोग्यकम् ॥ ८० ॥
द्विशक्तित्चतुरंशेन भद्रस्यावृतालिन्द्र (बालिन्द) कम् ।
एवं तु विजयं प्रोक्तं विवाहार्थं हि मण्डपम् ॥ ८१ ॥
Linked texts (1)
- Mānasāra — Sanskrit