Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.3

Language
English

v3.c24.s44.3

तस्याधः कर्णानं कुर्याद्वक्षोत्सेधार्धमेव च ।
तत्तद्देशे तु छिद्रं स्याद्वक्षभारे रथान्तकम् ॥ २६ ॥
छिद्रे प्रवेशयेत्कीलं युक्त्याऽयपट्टं योजितम् ।
उपाधारामपृष्ठे तु पट्टिकान्तं प्रयोजयेत् ॥ २७ ॥
रथाधारोपरिदेशे चोप्पपीठं समं तथा ।
भारोत्सेधसमं वापि द्विगुणं त्रिगुणं तथा ॥ २८ ॥
सर्वालङ्कारसंयुक्तं चोपपीठो (ठमु) च्ववद् भवेत् ।
तदूर्ध्वं प्रस्तराकारमुत्तरादिक्रियान्वितम् ॥ २९ ॥
हरिकरीमकररूपैः पत्रचित्रादिसर्वैः
परिकरं तु युगानां नाटकैर्भूतयक्षैः ।
रसिकरफणिकास्ते (कैस्तु) तोरणैः क्षुद्रपादैः
कृतमध करिकर्णानासिकाभूषणाढ्यम् ॥ ३० ॥
कुर्याद्युक्त्या च शोभार्थं युक्त्यास्त्वधो विना रथम् ।
रथाधारो (रमु) पर्युक्तं च रथमानमिहोच्यते ॥ ३१ ॥
त्रिभिर्वेदांवतस्त्यादौ षट्षडङ्गुलवर्धनात् ।
पञ्चसार्धकरं पञ्चहस्तान्तं विस्तृतं भवेत् ॥ ३२ ॥
ऊर्ध्वं चान्तस्यन्ने च दशधा परिकीर्तितम् ।
तस्मादेकवितस्त्यादौ षट्षडङ्गुलवर्धनात् ॥ ३३ ॥
सपादाद्विकरान्तं स्यादाष्टधा निर्गमं भवेत् ।
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवांश (वान्त) कम् ॥ ३४ ॥
एवं युक्त्या तलं कुर्याद् मूलादभावसानकम् ।
वितस्त्येकं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३५ ॥
एकहस्तावसानं स्यात् एकादश (पञ्चधा च) शिखोन्नतम् ।
पञ्चदशाङ्गुला (च्याङ्गुलं समा) रभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३६ ॥
सप्ता (प्त) दशाङ्गलान्तं स्यात्तू (तृ ती) तीये तु शिखोन्नतम् ।
वितस्त्येकं समारभ्य पादाधिककरान्तकम् ॥ ३७ ॥
तृतीये पञ्चधोत्सेधं त्रित्र्यङ्गुलविवर्धनात् ।
एकहस्तं समारभ्य त्रिवितस्त्यन्तमुच्यकम् ॥ ३८ ॥