Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s44.4

Language
English

v3.c24.s44.4

चतुर्थं पञ्चधा प्रोक्तं पूर्ववद् वर्धयेत्क्रमात् ।
त्रिमात्राधिकहस्तादौ त्रयस्त्रिं(नवत्रिं)शाङ्गुलान्तकम् ॥ ३६॥
कुर्यात्पञ्चविधं प्रोक्तं पञ्चधामतलोन्नतम् ।
पादाधिक्यं तु हस्तादौ सत्रिपादकरान्तकम् ॥ ४० ॥
एवं तु षट्फलं प्रोक्तं पञ्चधा चोत्क्रयं भवेत् ।
पादोनत्रिवितस्त्यादौ त्रित्र्यङ्गुलविवर्धनात् ॥ ४१ ॥
त्रिपादद्वि(त्रि)वितस्त्यन्तं सप्तन्ते पञ्चधोदयम् ।
त्रिवितस्ति(स्तिं) समारभ्य त्रित्रिमात्राविवर्धनात् ॥ ४२ ॥
द्विहस्ता(स्तान्तम)ष्टलोपञ्च(चं) पञ्चधायमिति स्मृतम् ।
सपादत्रिवितस्त्यादौ त्रित्रिमात्राविवर्धनात् ॥ ४३ ॥
[स]पादयुगवितस्त्यन्तं नवतले [तु] शिरो(खो)दयम् ।
अधश्चैकवितस्त्यादि द्वियङ्गुलविवर्धनात् ॥ ४४ ॥
अथविंशाङ्गुलोत्सेधं चैकादिनवान्तकम् ।
वितस्त्येकं समारभ्य प(वै)कैकाङ्गुलवर्धनात् ॥ ४५ ॥
मूलादग्रावसाने स्याद् युक्त्या युग्मवशात्( ं) न्यसेत् ।
चतुर्विंशाङ्गुलान्तं च पञ्चविंशाङ्गुलान्तकम् ॥ ४६ ॥
प्रत्येकं तु तल्लानां तु ऊ(तू)र्ध्वभूसो(मेर)धिकोन्नतम् ।
तल्लानामपि सर्वेषां कुट्टिमं तत्प्रकल्पयेत् ॥ ४७ ॥
तदधिष्ठानमाने तु चोक्तमानेन पूर्वके ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ४८ ॥
उपपीठस्य मानं तत्त्यक्ताधिष्ठानमेव च ।
यथाधिष्ठानगण्ये तु कुर्यात्(ङ्) गण्या(कण्टा)धिकोन्नतम् ॥ ४६ ॥
सर्वेषां देवतारूपं कुर्यात्सर्वं विचक्षणः ।
रथाः सर्वे समाश्राः स्युर्भद्रयुक्तम(क्ताः) श्रथापि वा ॥ ५० ॥
वितस्त्येकं समारभ्य त्रित्रिमात्राविवर्धनात् ।
त्रिवितस्त्यन्तं भद्राणां निर्गमं परिकल्पयेत् ॥ ५१ ॥
रथाधारे त्रिभागैकं चतुर्भागत्रिभागिकम् ।
पञ्चभागं त्रिभागं वा विस्तारस्यार्धमेव वा ॥ ५२ ॥

Linked texts (1)