Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.4

Language
English

v3.c24.s50.4

पट्टधृक्(ग्)भूपतेश्चैव हेम पट्टस्य कीर्तितम् ।
द्विशतं निष्कमारभ्य निष्कद्विशतवर्धनात् ॥ ४० ॥
सप्त(षट्)शतनिकान्तं स्यादुत्तमान्तं त्रयो(यसु)दितम् ।
मण्डलेशस्य पट्टस्य हेमसंख्या प्रकथ्यते ॥ ४१ ॥
स्वर्शनिष्कशतमारभ्य शतनिकविवर्धनात् ।
त्रिशतनिकपर्यन्तं कन्यसाद्युत्तमान्तकम् ॥ ४२ ॥
पट्टभाक्(ग्)भूपपट्टस्य संयुक्तं हेममे(ए)व च ।
भूपानां मकुटामान्तं केशान्तं मकुटोदयम् ॥ ४३ ॥
तदूर्ध्वं चाधिकं कुर्यात्तच्छिखामणियुङ्गकम् ।
जटामकुटकेशबन्धं च धवन्ना (कुन्तलं) त्रिपुषा(टा)कृतिः (ति) ॥ ४४ ॥
किरीटं वेणु(मौलि) कर्णाभं करण्डं [तु] शिखितुण्डवत् ।
शिरस्त्रं बुद्बुदाकारं धम्मिल्लं वह्निकाकृतिः(ति) ॥ ४५ ॥
केशान्तादलकाचूडं कुर्यात्तु मकुटानि वै ।
भूपानां मकुटोत्सेधं षड्विंशं तु विभाजिते ॥ ४६ ॥
फालपट्टोदयं पञ्चभागं चूडं तदर्धं(तु दश)कम् ।
पुरमुत्सेधं पञ्चांशं मूलतारं षडंशकम् ॥ ४७ ॥
देवानां मकुटोच्चं तु नव(चैक)विंशति भाजिते ।
पार्श्वपूरितं नन्दांशं तुङ्ग(ण्ड)तारं षडंशकम् ॥ ४८ ॥
लभ्यर्थांशा(शम)प्रपट्टं स्यान्त्रिपादांशेन वेत्रकम् ।
पट्टार्थं(धं) चोर्ध्वदेशे सत्यादांशेन त्रिवेत्रकम् ॥ ४९॥
तदूर्ध्वं पद्ममेकेन द्वांशेन कुदमलोदयम् ।
मकुटान्तात्पट्टिकान्तं स्यात्तदूर्ध्वं तु शिखामणिः ॥ ५० ॥
वेत्रादिकुद्मलान्तं स्याच्छिखामण्युदयमीरितम् ।
अधोवेत्रोदयदेशे रत्नदामावृतांशकम् ॥ ५१ ॥
वृत्ताकारं तु सर्वाङ्गं युक्त्या तत्रैव योजयेत् ।
अन्यत्र सर्वदेशे तु तरङ्गाकृति योजयेत् ॥ ५२ ॥
तरङ्गाकारमध्ये तु पुष्परत्नश्च विभूषितम् ।
पूरितं च द्विभागं च मकरैश्च विभूषितम् ॥ ५३॥