Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.5

Language
English

v3.c24.s50.5

तन्मध्ये रत्नबन्धं स्यात्तस्यावृतसपत्रयुक् ।
अग्रे च रत्नबन्धं स्याद्वाह्ये तु वह्निकाङ्गितम् ॥ ५४ ॥
मकरस्यास्य देशे तु वह्निदामं(मं) च निर्गमम् ।
पुरतः पृष्ठतश्चैव मकरान्मकरान्तकम् ॥ ५५ ॥
मौलिबन्धेन वल्ल्येव मुक्तादामै(मभि)रलङ्कृतम् ।
ललाटपट्टतुङ्गं तुचतुर्भागं(गे) विभाजिते ॥ ५६ ॥
एकांशं पट्टबन्धं स्यात्सर्वरत्नैरलङ्कृतम् ।
तस्याधो रत्नदामैश्चल(मभिलं)म्बितोर्ध्वैऽर्धचन्द्रवत् ॥ ५७ ॥
कर्णपत्रसमायुक्तं श्रोत्रोध्वे कर्णपुष्पयुक् ।
तस्मात्तु लम्बनं दाम सर्वरत्नैरलङ्कृतम् ॥ ५८ ॥
पूरिमध्यादधोदेशे चूल(ल)रत्नानि विन्यसेत् ।
चतुष्पूरी [च] संयुक्तं कर्णोध्वे पार्श्वपूरितम् ॥ ५९ ॥
शिरःपृष्ठोध्वदेशे तु पृष्ठपूरि[रिं च] संयुक्तम् ।
पृष्ठस्याधश्च मध्ये तु शिरःश(रख)क्रं तु संयुतम् ॥ ६० ॥
शिरोनाहत्रिभागैकं शिरःश(रख)क्रविशालकम् ।
चक्राकारं तु संयुक्तं सर्वरत्नानि विन्यसेत् ॥ ६१ ॥
एवत्किरीट(टं) मकुटं सर्वालङ्कारसंयुतम् ।
जटाचूड़ोध्वबन्धं स्यादाने पट्टादिकान्वितम् ॥ ६२ ॥
मध्ये शिखामणि कुर्यात्तत्पार्श्वे दामलम्बनम् ।
जटान्तरालैः पुष्पैश्च शेषं पूर्ववदाचरेत् ॥ ६३ ॥
तदेव केशबन्धं स्यान्मौलिसध्ये सुबन्धनम् ।
तदूर्ध्वं चालकापङ्किः कुर्यात्तद्भ्रमराकृतिः ॥ ६४ ॥
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् ।
तदेव कुन्तलं कुर्यान्मध्यमन्थेन योजयेत् ॥ ६५ ॥
सर्वाङ्गे भ्रमरं कुर्यात्तद्विशेषं तु पूर्ववत् ।
शिरस्यो(स ऊ)र्ध्वं शिखाग्रं तन्मध्ये कुडुमलोदयम् ॥ ६६ ॥
भ्रमतारत्रिभागैकं सर्वकुइमलविस्तृतम् ।
विना (पिनाका) कृतिना सर्वं तच्छ्रेषं पूर्ववद् भवेत् ॥ ६७ ॥