Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.6

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.6

Language
English

v3.c24.s50.6

त्रिचतुष्पञ्चवत्तयं च तारे(चान्तरे) वेत्रपद्मयुक् ।
चक्रवद्धाप्रदेशे तु कुङ्कुमा(लं) स्यान्न दामकम् ॥ ६८ ॥
शेषं प्रागुक्तवत्प्रोक्तं करण्डमकुटान्वित(ण्डं च शिरस्खक)म् ।
शिरोनाहत्रिभागैकं धम्मिल्लल्लाप्रविशालकम् ॥ ६९ ॥
पञ्चत्रिंशेन तन्मूलं तत्र संविस्तृतं भवेत् ।
कुर्यात्त्रिवलयोपेतं न कुर्यात्तु शिखामणिम् ॥ ७० ॥
सर्वरत्नानि विन्यस्य(सेद्) विना च कर्णपूरकम् ।
शिरश्शूलं तु संयुक्तं शेषं तत्पूर्ववद् भवेत् ॥ ७१ ॥
तदेवकल(बालक)चूडे तु मूले तु रत्नबन्धनम् ।
मूलभ्रमसमं तारं मध्ये चोक्तविशालकम् ॥ ७२ ॥
तद्विस्तारत्रिभागैकं तदूर्ध्वोदयविस्तृतम् ।
नवरत्नैश्च संयुक्तं शेषं पूर्ववदाचरेत् ॥ ७३ ॥
फालपट्टाभवत्कुर्यात्पट्टैः सर्वाकृतिस्तथा ।
पत्ररत्नादिसंयुक्तं पत्रपट्टमिति स्मृतम् ॥ ७४ ॥
नवरत्नैश्च संयुक्तं कुर्यात्तद्रत्नपट्टकम् ।
नानापुष्पैश्च संयुक्तं पुष्पपट्टमिति स्मृतम् ॥ ७५ ॥
सर्वेषां मौलिदेशे तु चाष्टमङ्गलसंयुतम् ।
श्रीवत्सं मध्यमे कुर्यात्तस्याधः पूर्णकुम्भकम् ॥ ७६ ॥
तत्पाख्ये चामरं दीपं चोर्ध्वे च छत्रसंयुतम् ।
दक्षिणे दर्पणं वामे स्वस्तिकं शङ्खमेव च ॥ ७७ ॥
एवं तु नृपमध्ये तु गलपट्टोपरि न्यसेत् ।
सर्वेषां भूपतीनां च महिषीणां च योग्यकम् ॥ ७८ ॥
सर्वेषां मकुटानां च सर्वालङ्कारसंयुतम् ।
सर्वेषां पुष्पमकुटं शिरोनासह(हस) मोदयम् ॥ ७९ ॥
त्रिपादं सार्धमेवं वा सर्वपुष्पैरलङ्कृतम् ।
चतुरश्रं चतुर्दिक्षु चाथवा वृत्तमेव च ॥ ८० ॥
मकुटाकारसंयुक्तं करण्डं वा किरीटकम् ।
बेमं(एवम्) विना तु कुसुमैमकुटं कुर्याद्यथाविधि ॥ ८१ ॥