Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.7

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s50.7

Language
English

v3.c24.s50.7

पट्टबन्धस्य नृपतेः पुष्पपट्टं तदर्धकैः ।
अन्येषां भूपतीनां च मूर्ध्नि मालां च बन्धयेत् ॥ ८२ ॥
प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा ।
चतुर्विधाभिषेकस्य(कश्च) चक्रवर्तैश्च कथ्यते ॥ ८३ ॥
मौलिनां च त्रिपुत्राणामाद्याभिषेकपूर्वकैः ।
उक्तवच्छास्त्रमार्गे तु कुर्यात्पुष्याभिषेककम् ॥ ८४ ॥
भूपानां चाभिषेकाख्यं(ख्य) कर्मकाले विशेषतः ।
स्थपतिः(ति)स्थापकैर्विप्रैः स्थापित (तं) स्वङ्गुरापर्ण्यम् ॥ ८५ ॥
अधिवासादिपर्यन्तं कर्मकुर्याद्बुधैः सह ।
उक्ताधिवासात्कुम्भानां (न) जलपूर्णांन्समारभेत् ॥ ८६ ॥
यागमण्डपसौम्ये तु सिंहासनस्य चोपरि ।
नृपालस्तत्र संकल्प्य अ(चा) भिषेकं समारभेत् ॥ ८७ ॥
सरित्समुद्रसलिलं (न्न) कुम्भैः पूर्णा (र्णै) दधिमयैः ।
अथर्वसामगीतैश्च चान्यैश्चागममन्त्रकैः ॥ ८८ ॥
जलाभिषेक (कं) संपूर्ण कुर्यात्त (तां) स्थपतिर्गुरौ (रुः) ।
पश्चात्तु होमशिखा (शेषस्य) च दभं द (धू) त्वा त्रिपुण्ड्रकम् ॥ ८६ ॥
ललाटे धारणं कुर्याद् भूपतेस्तु यथाविधि ।
हंसश्चि(चि)ह्नदुकूलं च धारयेत्तदनन्तरम् ॥ ६० ॥
श्रीचन्दनं च कस्तूरीकुङ्कुमं चानुलेपयेत् ।
यज्ञसूत्रोत्तरीयं च सर्वाभरणभूषितम् ॥ ६१ ॥
सर्वालङ्कारसंयुक्तमभिषेकाख्यमण्डपम् ।
आनयेन्मकुटं सिंहं पीठं च स्थपतिर्गुरुः ॥ ६२ ॥
प्रोक्षयेत्पञ्चगव्यादि मध्यरङ्गे तु विन्यसेत् ।
पुरोहितपुरगाश्च मकुटं धारयेत्ततः ॥ ६३ ॥
पश्चात्सिंहासनार्थैश्च कल्पवृक्षं च तोरणम् ।
निर्यूहाद्यैरलङ्कृत्य नृपालं तत्र वेशयेत् ॥ ६४ ॥
सहोपवेशनं कुर्यान्महिषीं (षी) सव्यपार्श्वके ।
सुमुहूर्ते सुलग्ने च स्थपतिस्थापकावुभौ ॥ ६५ ॥