Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.3

Language
English

v3.c24.s51.3

चातकस्य चकोरस्य मरालस्य च पञ्जरम्।
पारावतस्य नीडं च नीलकण्ठस्य पञ्जरम् ॥ २६ ॥
तित्तिरेक्व कुलायं च कन्दु(खञ्ज)रीट(ट)स्य पञ्जरम् ।
कुक्कुटस्य कुलायं च नकुलस्यापि पञ्जरम् ॥ २७ ॥
चटकस्य गोधारस्य पञ्जरं व्याघ्रपञ्जरम् ।
सर्वेषां लक्षणं वक्ष्ये विधिना संक्षेपतः क्रमात् ॥ २८ ॥
द्वादशाङ्गुलमारभ्य ए(चै)कादशाङ्गुलं भवेत् ।
अष्टसप्ताङ्गुलोपेतं विंशत्यङ्गुलकान्तकम् ॥ २९ ॥
नवधा दीपपण्डोचं द्व्यङ्गुलविवर्धनात् ।
अथवा हस्तमानेन दीपपण्डोदयं क्रमात् ॥ ३० ॥
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
द्विकरान्तं तथोत्सेधं तथा हस्तेन वर्धयेत् ॥ ३१ ॥
नवहस्तावसानं स्यात्कन्यसादि त्रयं त्रयम् ।
केचिदुत्से(तस्तु)दीपदण्डं हर्म्यवशोदयम् ॥ ३२ ॥
प्रस्तरं वेदिकान्तं च ग्रीवान्तं दण्डकान्तकम् ।
नासिकान्तं फलि(ल)कान्तं पद्मान्तं तद्दृष्टान्तकम् ॥ ३३ ॥
स्तूपिकाग्रावसाने स्यात्कन्यसादि त्रयं त्रयम् ।
एकाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ॥ ३४ ॥
अथवाधर्धाङ्गुलैर्वृद्ध्यात्वथषडङ्गुलान्तकम् ।
मात्राङ्गुलोनमें (ले नै) वोक्तं [च] दीपपण्डविशालकम् ॥ ३५ ॥
एवं तु दारुजैः कुर्याल्लोहजेतु (न) विशेषतः ।
एकाङ्गुलं समारभ्य चाधर्धाङ्गुलवर्धनात् ॥ ३६ ॥
पञ्चाङ्गुलावसानं स्यात्कन्यसादि त्रयं त्रयम् ।
फलकादण्डकमिति प्रोक्तं विस्तारं दण्डमूलके ॥ ३७ ॥
त्रिचतुष्पञ्चषट्सप्तसाष्टभाग(गे) विभाजिते ।
तत्तदेकांशहीनं स्याच्छ्लेषदण्डाग्रविस्तृतम् ॥ ३८ ॥
चित्रपाण्यग्रवद् दण्डं मूले पद्मासमान्वितम् ।
अग्रे च फलकान्तं च तार्टिकायैर्विभूषितम् ॥ ३९ ॥