Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s51.4
- Language
- English
v3.c24.s51.4
अथवाङ्घ्रिकवारि(रि) स्यादूर्ध्वं च कुड्मलान्वितम् ।
दण्डविस्तारमानेन दण्डद्वित्रयमेव वा ॥ ४० ॥
चतुर्दण्डं पञ्चषड्दण्डं पद्मविस्तारमेव च ।
फलका च त्रिदण्डं स्यादथवा पङ्कजोक्तवत् ॥ ४१ ॥
दण्डमध्ये तु ते सर्वे युग्मा चाङ्घ्रिकवारिका ।
चतुरश्रं वा तदष्टाश्रं वृत्तं वा चलदण्डकम् ॥ ४२ ॥
स्थिरदण्डविशालं तु मानाङ्गुलवशान्नयेत् ।
त्रिचतुर्मात्रमारभ्य द्व्यङ्गुलाद्विवर्धनात् ॥ ४३ ॥
एकोनविंशत्यङ्गुल्या विंशत्यङ्गुलकान्तकम् ।
एवं नवविधं प्रोक्तं स्थिरदण्डविशालकम् ॥ ४४ ॥
लोहजैर्दारुजैर्वापि शैले वाथ प्रकल्पयेत् ।
पुरोक्तदण्डतुङ्गे तु त्रिचतुष्पञ्चषडंशके ॥ ४५ ॥
एकैकं चाधिकं युक्तं दण्डस्य घात(घन)मानकम् ।
मूले च वेदिकां कुर्यात्पद्मोपपीठमेव वा ॥ ४६ ॥
फलकादिभूपर्य्यं वापि मञ्जु(ऋजु)दण्डमथापि वा ।
मूले च चतुरश्रं स्यादष्टाश्रं वा सुवृत्तकम् ॥ ४७ ॥
ऊर्ध्वे चोक्तवदाम्रे चामूलाग्रञ्चयं तरिम्(क्रमात्) ।
युक्त्योपर्युक्तवन्माने कुर्यादूर्ध्वे तु दण्डकम् ॥ ४८ ॥
व्यजनदण्डमानस्य लक्षणं वक्ष्यतेऽधुना ।
यत्तदङ्गुलमानेन षट्सप्ताङ्गुलमारभेत् ॥ ४९ ॥
द्वादशाङ्गलान्तं स्यान्मूलदण्डायतं भवेत् ।
एकं वाथ द्व्यङ्गुलं यथा संपरिकीर्तितम् ॥ ५० ॥
इत्युक्त(क्तं) मूलमग्रं च मध्ये किञ्चित्कृशान्वितम् ।
वृत्ताकारं च दण्डं स्यादग्रे च ह(हा)रितन्वितम् ॥ ५१ ॥
मूले च कुड्मलाकारं किञ्चित्पद्मासनान्वितम् ।
तदूर्ध्वे भ्रमदण्डं स्यान्मूलदण्डायतं भवेत् ॥ ५२ ॥
विस्तारैरुत्रिभागीकं चतुर्भागविशालकम् ।
तदग्रे हरिता(त)पद्मं किञ्चित्कुड्मलसंयुतम् ॥ ५३ ॥