Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.10
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.10
- Language
- English
v3.c24.s53.10
पीठतुङ्गं समं वाथ त्रिपादं चार्धमेव वा ।
लिङ्गायाममिति प्रोक्तं नाभं(हं) पीठविशालवत् ॥ १११ ॥
नदीपर्वतदेशे तु लिङ्ग(पीठ)संपदशं भवेत् ।
श्वेतरक्तं च पीतं च कृष्णवर्णं चतुष्टयम् ॥ ११२ ॥
भूसुरादिचतुर्णां तु वर्णानां लिङ्गतः क्रमात् ।
अथवा कृष्णवर्णं च तत्सर्वं चार्थकं भवेत् ॥ ११३ ॥
स्फटिकार्यं(र्षं)तलिङ्गं यत्तूद्देश्यं च शम्भुरुच्यते ।
तत्र स्वयम्भुलिङ्गे तु विरूपं च विशेषतः ॥ ११४ ॥
सम्यक् सूत्रे च संकुर्याद्यावल्लक्षणमुच्यते ।
तल्लिङ्गं मानुषं प्रोक्तं तत्पर्यन्तञ्चिन्द्र(तालिन्द) के [च] ॥ ११५ ॥
रेखाविन्दुकलङ्काङ्गं वर्जयेत्तद् विशेषतः ।
सौवर्ण्यबिन्दुरेखाख्यं सर्वसंपत्सुभावतम् ॥ ११६ ॥
ईषत्तदुन्नतं लिङ्गं हर्म्यवत्स्वयंभुलिङ्गकम् ।
वृत्तं वायतवृत्तं वा नामे(भेः) चरणा[भा]यते ॥ ११७ ॥
किञ्चित्तदुन्नतं वर्त(र्मं) निम्नं तत्पृष्ठ(पीठ) मिष्यते ।
स्थूलाग्रं यत्कृशं मूले लिङ्गं सर्वं निग(ज्ञा) कति ॥ ११८ ॥
स्वभावदन्तोष्ठयुक्तं चेल्लिङ्गं तन्मानुषं भवेत् ।
सिकतारूपकं ज्ञात्वा चैवं स्वयम्भुलिङ्गकम् ॥ ११९ ॥
विनारक्तं विनाकृष्णं सैकते लिङ्गमिष्यते ।
सर्वं(वं)स्वयम्भुलिङ्गेषु आ(चा) त्मार्थं च परार्थके ॥ १२० ॥
नसंज्ञे(घे)षु च रक्तेषु लिङ्गस्योक्तो(क्ता)र्चनं भवेत् ।
उक्तलिङ्गप्रकारेण शेषमागमतो (तो) तवत् [च] ॥ १२१ ॥
आत्मार्थाञ्चैनलिङ्गस्य वक्ष्यते पीठलक्षणम् ।
कर्तुन्नाशं परित्यज्य किञ्चिचैव शिला भवेत् ॥ १२२ ॥
जलानलातपवातस्पृष्टाश्मानि विवर्जयेत् ।
पृष्ठयोगर्भक्षिप्तं स्निग्धं विन्दुरेखां(खं) विवर्जयेत् ॥ १२३ ॥
फलितं चैकभागं स्यात्स्त्रीशिला तु प्रकीर्तिंतम् (ता) ।
नपुंरं(पुंसं) सुसमद्दष्टं च [नपुंसकं] शिला भवेत् ॥ १२४ ॥
Linked texts (1)
- Mānasāra — Sanskrit