Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.9

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.9

Language
English

v3.c24.s53.9

शक्तानां पीठकानां च स्त्रीशिलासंग्रहं (हो) भवेत् ।
प्रासादादीनि(नां) सर्वेषां नपुंसकशिला भवेत् ॥ ९७ ॥
श्वेतरक्तं च पीतं च शिला कृष्णां यथाक्रमात् ।
द्विजातीनां च वर्णानां कुर्याल्लिङ्गादिना (दीन्) बुधः ॥ ९८ ॥
सर्वेषामपि वर्णानां सा शिला कृष्णमेव वा ।
सर्वेषां वर्णपापाणे कृष्णरेखां विसर्जयेत् ॥ ९९ ॥
श्वेतं च स्वर्णरेखं च सर्वसंपत्करं शुभम् ।
शिलासंग्रहणं प्रोक्तं शेषमर्हमागमोक्तवत् स्मृतम् ॥ १०० ॥
स्वयम्भुलिङ्गसर्वेषां लक्षणं वक्ष्यतेऽधुना ।
उद्भूतं दैवकं चैव मानुषं गाणवं तथा ॥ १०१ ॥
एवं चतुर्विधं लिङ्गं स्वयम्भुरिति कीर्तितम् ।
तत्स्थाप्य(प्यं) स्वयमुद्भूतं स्वयम्भुरिति कीर्तितः ॥ १०२ ॥
देवैश्च स्थापितं लिङ्गं दैविकं लिङ्गमुच्यते ।
मानुषैः रचितं लिङ्गं मानुषं चेति कथ्यते ॥ १०३ ॥
अन्येषु (न्यैः) रचितं लिङ्गं चार्षञ्चैव कथ्यते ।
गणैश्च पूजितं लिङ्गं गाणं चेति प्रकथ्यते ॥ १०४ ॥
उद्भूतं श्वेतवर्ण चे (कुर्या) द् दैविकं रक्तवर्णकम् ।
मानुषं पीतवर्णाभं कृष्णवर्ण च गाणक(व) म् ॥ १०५ ॥
आर्षं युक्तसूत्रं स्यात्स्वस्तिकाकृतिरे (मे) व वा ।
उद्भूतं शङ्खराकारं रुद्राक्षरं [च] दैविकम् ॥ १०६ ॥
नगर्दभं (गोपभं) गाणवं स्याल्लिङ्गाकारमिहोच्यते ।
उद्भूतस्सा(त्तं स्थू)लमूलं स्यात्कृशाग्रं वा समाधिकम् ॥ १०७ ॥
अन्यथा सर्वलिङ्गानां स्थूलाग्रं कृशमूलकम् ।
दैविकं दिण्डिमाकारं मानुषाद्र्वपुषा (पं सुफुल्लुवा) कृतिः (तिम्) ॥ १०८ ॥
उद्भूतं पर्वताकारं कूरमा (कूर्मा) ण्डाकार (रं) गाणवम् ।
पुण्यरत्नद्रिदेशे तु लिङ्गसंग्रहणं भवेत् ॥ १०९ ॥
एवं परार्थं लिङ्गं स्याच्छेषमागमतो (मो) क्तवत् [स्यात्] ।
आत्मार्थं लिङ्गपीठस्य लक्षणं पठ्यतेऽधुना ॥ ११० ॥

Linked texts (1)