Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.11
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.11
- Language
- English
v3.c24.s53.11
सम्यक्कृष्णनीलाः प्रोक्ताः वर्णमन्यं विवर्जयेत् ।
कर्षपाषाणवत्स्वर्णरेखोपशमिष्यते ॥ १२५ ॥
एवं परि(री)क्षिते पश्चात् शि(ल्लि)ङ्गासंग्रहणं भवेत् ।
एवं लक्षणयुक्तस्य शिलापीठं प्रकुर्वते ॥ १२६ ॥
कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलमध्यमे ।
पर्वता(र्वा)यतनस्ता(ना)दमङ्गुलं त्रिविधं भवेत् ॥ १२७॥
यवेन कल्पिते वापि चाङ्गुलंवा (ना)पि कल्पयेत् ।
कर्तुंनक्षत्रमित्रं (श्रं) हि मानं युक्त्या प्रयोजयेत् ॥ १२८ ॥
परार्थे वा स्वयम्भूनां मानाङ्गुलवशेन वा ।
आयाममिति षड्वर्गमित्थं पीठोदयं भवेत् ॥ १२६ ॥
लिङ्गमानं वियुक्तं चेत्कुर्यात्तु मानुषादीनाम् ।
तन्त्रिभिर्र्यवं समारभ्य द्विड्ग्यङ्गलविवर्धनात् ॥ १३० ॥
पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारमेव च ।
अङ्गुलत्रयमारभ्य द्विड्ग्यङ्गलविवर्धनात् ॥ १३१ ॥
पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारं विधीयते ।
षड्वर्गा [या] दिशुभं कुर्याद्यवाभागादि संभवम् ॥ १३२ ॥
तन्माने पीठविस्तारं कृत्वा तु चतुरंशकम् ।
एकांशं लिङ्गमानं स्याच्छेषं तत्पीठतुङ्गकम् ॥ १३३ ॥
अथवा पञ्चभागांशं तल्लिङ्गोदयमीरितम् ।
शेषं तु पूर्ववत्पीठं तुङ्गं कुर्याद्विचक्षणः ॥ १३४ ॥
पीठतारसमं लिङ्गं मध्यनालाप्रकान्तकम् ।
पीठतारं द्वयं कृत्वा ए(वै)कांशं नालविस्तृतम् ॥ १३५ ॥
तच्चतुर्भागिकैकांशं (श) हीनं नालाम्रतारकम् ।
केचिद् द्वित्र्यंशमेवं स्यान्मूलाग्रान्तक्षयं क्रमात् ॥ १३६ ॥
तद्विशालात्त्रिभागैकं प्रणाले विस्तारमेव वा ।
पीठतारचतुर्थांशे त्रियं (त्रयां) शं वृत्तवारिका ॥ १३७ ॥
पीठतारसमं चैव लिङ्गं तन (ङ्गस्य) परिक्षाहिकम् ।
एवमात्मार्थलिङ्गेषु स्वयम्भुवं परार्थक ॥ १३८॥
Linked texts (1)
- Mānasāra — Sanskrit