Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.8

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s53.8

Language
English

v3.c24.s53.8

पत्रावलीढकारमं च अ(वा)जलावटे कदाशमना ।
आतपेनावलोढं चेद् वर्जयेत्सा शिला भवेत् ॥ ८३ ॥
यत्पूर्वोत्तराग्रं ज्ञात्वा मूलं दक्षिणपश्चिमे ।
अधोभागा(गे) सुखं ज्ञात्वा शयने चापरोध्वंकम् ॥ ८४ ॥ 192
पूर्वाग्रं (प्राश) च शिला (लाः) सर्वे (र्वा) दक्षिणे सव्यपार्श्वके ।
उत्तरे वामभागं स्यादुत्तराग्रशिले (लायां) विदुः ॥ ८५ ॥
पूर्वं तु दक्षिणं पार्श्व पश्चिमे वामपार्श्वकम् ।
ईशानाग्रशिलानां तु मूले (लं) नैर्ऋत्यदेशके ॥ ८६ ॥ 196
अन्यकोणेषु सर्वेषु मूलमग्रं न विद्यते ।
दिक्षु दीर्घशिला सर्वाः पुंशिलानां (श्च) प्रकीर्तितम् (ताः) ॥ ८७ ॥
चतुष्कोणेषु दीर्घं स्याच्छिलाषण्डः प्रकीर्तितः ।
प्रभूतं च स्थिता (तं) सर्वं पृथिव्याकाशायतं तथा ॥ ८८ ॥ 200
ऊर्ध्वाग्रमध्यो मूलं [च] प्रागुक्तदिक् तथैशके ।
तत्तदुन्नतवक्रं च यदि स्यान्मं भवेत् ॥ ८६ ॥
तत्पार्श्वं पूर्ववज्ज्ञात्वा तस्याकारमिहोच्यते ।
मूलमग्रं च मध्यं च समाकारं तु पुंशिला ॥ ६० ॥ 204
स्थूलमूलं कृशाग्रं स्यात्स्त्रीशिला तु प्रकाशिता ।
स्थूलाग्रं च कृशं मध्ये स्थूलं नपुंसकं शिला ॥ ६१ ॥
चतुरश्रं पुंशिला प्रोक्तं वृत्तं स्याद् वनिता शिला ।
बहुधा गृह्य (चाप्र) शृङ्गं स्यान्नपुंसकं वसु (दु) शाइतम् ॥ ६२ ॥ 208
कांसकांस्यनिनादं स्यात्स्त्रीशिला तु प्रकीर्तिता ।
रत्नभाण्डध्वनिनादं शिला च पुरुषं स्मृतम् ॥ ६३ ॥
निर्ध्वनि च शिला सर्व नस्त्री नपुमान् विदुः ।
तालध्वनिनादं स्याच्छिला वल्याः (ह्रो) प्रकीर्तितम् (ता) ॥ ६४ ॥ 212
महिषध्वनिसंयुक्ता शिला वृत्ताः प्रकीर्तिता ।
पूर्वोक्तध्वनी (कार्यानि) नादं यावना च शिला भवेत् ॥ ६५ ॥
शिलासर्वेषु वृत्तं च शिलाञ्छा [लां] विवर्धयेत् ।
पुंशिखेन (खया) पुमान् (मांसं) लिङ्गं कुर्याद्रेखां विवर्जयेत् ॥ ६६ ॥ 216

Linked texts (1)