Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.3
- Language
- English
v3.c24.s55.3
प्रकोष्ठावलयं रत्नैः कटकं मणिबन्धकैः ।
रत्नेन कटिसूत्रं स्याद्रत्नदामादिभूषितम् ॥ २७ ॥
रत्नहेमं(म्ना) च वस्त्रेण कुर्यान्निव्यं च लम्बयेत् ।
नलकान्तं त्रि(त्रि)लम्बं स्यात्सर्वैरत्नानि(न)शोभिताम् ॥ २८ ॥
भुजङ्गाङ्गवलयं पादौ(दयोश) चोर्ध्वाधो रत्नबन्धनम् ।
पादनूपुरसंयुक्तमङ्गुलीरङ्गुलीयक(का)म् ॥ २९ ॥
बाहुमूलादि संपूज्य सर्वाभरणभूषितम् ।
अथवा द्विभुजं चैव वामहस्ते च सन्धिमत्(डिण्डिमम्) ॥ ३० ॥
दक्षिणे रत्नपद्मं स्याच्छेषं प्रागुक्तवन्नयेत् ।
एवं प्रोक्तं(क्तां) महालक्ष्मीं स्थापयेत्सर्वहर्म्यके ॥ ३१ ॥
सामान्यं(न्यां) लक्ष्मीं कुर्याद् द्विभुजं(जां) च द्विनेत्रके(काम्) ।
रक्तपद्मोद्धृतं(तां) हस्तौ सर्वाभरणभूषितम् ॥ ३२ ॥
शेषं तु पूर्ववत्कुर्याद् देवो(वी)पार्श्वे विशेषतः ।
ऐरावतद्वयोश्(यं) चैव कुर्यादाराद(ध)येत्सुधीः ॥ ३३ ॥
सर्वास(र्वाषा)मालये द्वारे मध्यरङ्गे तु पूजयेत् ।
अथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥ ३४ ॥
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् ।
अथवा केशबन्धं स्याद्वामहस्तोद्धृताब्सकम् ॥ ३५ ॥
दक्षिणं हस्तं वरदं च अ(चा)थवा लम्बने भवेत् ।
स्थानकं चासने वापि स्थापयेद् विष्णुदक्षिणे ॥ ३६ ॥
कुर्यात्तु सर्वलक्ष्मीनां मध्यमं(म)दशतालके ।
सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ॥ ३७ ॥
एतेषाम्(एषाः) इ(चे)न्दिराः प्रोक्ताः(क्तास्तु) महि(ही)शक्तिमि(रि)होच्यते ।
द्विभुजं(जां) च द्विनेत्रं(त्रां) च करण्डमकुटान्वित(वा)म् ॥ ३८ ॥
दुकूलवसनोपेतां मकुटं कुन्तलं तु वा ।
स्थानकं चासने वापि विष्णुमूर्या(त्यैर्)धसव्यके ॥ ३९ ॥
दक्षिणे चोत्पलं धृत्वा वामभाग तु लम्बनम् ।
अथवा वरदं वामे श्यामवर्णाङ्गशोभिताम् ॥ ४० ॥