Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.3
- Language
- English
v3.c24.s66.3
सार्धद्विनवमात्रं स्याद् वक्षस्थलविशालकम् ।
एकविंशाङ्गुलं चोर्ध्वं कक्षयोरन्तरस्थलम् ॥ २६ ॥ 52
द्वाविंशांशकं चोर्ध्वं चत्वारि(तुर्विं)शार्धमात्रकम् ।
बाहुपर्यन्तविस्तारं बाहुमूलविशालकम् ॥ २७ ॥
नवांशं ग्रीवविस्तारं तत्समं तद् विधीयते ।
मुखविस्तारं भान्वंशं पुरस्तस्मात्प्रदेशके ॥ २८ ॥ 56
केशान्तोपरि माने(भागे) तु शिरो(रस्)तारं दशाङ्गुलम् ।
केशान्तान्नेत्रसूत्रान्तं त्रिभागं तद् विभाजिते ॥ २६ ॥
तदेकांशं ललाटोध्वं शेषं दृष्टिपदेशकम् ।
दृष्टिभालद्वयोर्मध्ये सुध्रुक्स्नाने प्रकल्पयेत् ॥ ३० ॥ 60
ध्रुवायामं शराङ्गुल्यं ध्रुवतारमर्धमात्रकम् ।
तदर्धं मध्यता स्थान्मूलाप्रान्तं (न्त) त्रयं क्रमात् ॥ ३१ ॥
ध्रुवयोरन्तरायान्तं (तं) पादांशं पञ्चवंशाकम्(यवाधिकम्) ।
नेत्रायामं त्रिमात्रं स्याद् विस्तारं तच्छिखांशकम् ॥ ३२ ॥ 64
नेत्रयोरन्तरं मध्ये द्विमात्रं तत्प्रशस्यते ।
त्रि(त्र्यं)शैकद्वयपञ्चैव नेत्रमूर्धाम्ररक्षयोः ॥ ३३ ॥
शेषमभ्यन्तराक्षिः स्यात्तत्रिभाग (गे) विभाजिते ।
कृष्णमण्डलमेकांशे(शं) शेषं तच्छेतमण्डलम् ॥ ३४ ॥ 68
कृष्णमण्डलसंकाशं ज्योतिर्मण्डलमंशकम् ।
कृष्णमण्डलमध्य तु ज्योतिर्मण्डलकं विदुः ॥ ३५ ॥
नेत्रमध्ये तथा कृष्णज्योतिरान्तराकमंशकम् ।
दृष्टिमण्डलमेवोक्तं ज्योतिर्मण्डलमध्यमे ॥ ३६ ॥ 72
ऊर्ध्वाधो वर्मविस्तारं ह्यङ्गुलार्थं त्रिमात्रकम् ।
मत्स्याकाराक्षिमात्रं स्याद् ध्रुवः(वं) कोदण्डवत्सुधीः ॥ ३७ ॥
श्रोत्रायामं तु वेदांशं नालायाममधमधिकम् ।
भूमध्यसमं श्रोत्रमममेवं प्रकल्पयेत् ॥ ३८ ॥ 76
पिप्पल्यायामविस्तारं तदर्धं (र्ध) विस्तृतं भवेत् ।
नालान्तरं त्रिमात्रं स्यात्तदर्धं श्रोत्रवद् घनम् ॥ ३६ ॥