Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.3

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s68.3

Language
English

v3.c24.s68.3

तत्सूत्राज्ज्ञकद्वयोर्मध्यं ह्यन्तरं तु षडङ्गुलम्।
सूत्रान्तं नलकमान्तं स्यात्सार्धसप्ताङ्गुलं भवेत् ॥ २६॥
समाङ्घ्रि स्थानकं कुर्यात्कायमृज्वार्यवं भवेत् ।
पादाङ्गुष्ठद्वयोर्मध्ये ह्यन्तरं चाष्टमात्रकम् ॥ २७ ॥
तलमध्यद्वयोर्मध्ये ह्यन्तरं तु षडङ्गुलम् ।
तत्पाणि[श्च] द्वयोर्मध्ये [च] ह्यन्तरं वेदमात्रकम् ॥ २८ ॥
नलकान्तं (न्त) द्वयोर्मध्ये ह्यन्तरं तु रसाङ्गुलम् ।
जङ्घामध्यं (ध्य) द्वयोर्मध्ये ह्यन्तरं तु शराङ्गुलम् ॥ २६ ॥
जानुमध्यद्वयोर्मध्ये ह्यन्तरं वेदमात्रकम् ।
ऊरुमध्यं (ध्य) द्वयोर्मध्ये ह्यङ्गुलं चान्तरं भवेत् ॥ ३० ॥
ऊरुमूलद्वयोर्मध्ये शिवमात्रान्तरं भवेत् ।
हस्तौ च लम्बनं कुर्यात्तदन्तरमिहोच्यते ॥ ३१ ॥
श्रोण्या [त्तु] कूर्परं (र) पार्श्व (श्वं) च ह्यन्तरं तु षडङ्गुलम् ।
प्रकोष्ठात्कण्ठन्तरं ह्यन्तरं च त्र्यङ्गुलम् ॥ ३२ ॥
अथवा ह्यङ्गुलं वापि मणिकन्ध (न्धं) दशाङ्गुलम् ।
मध्याङ्गुलं च पार्श्वं च ह्यन्तरं दशमात्रकम् ॥ ३३ ॥
एवं तु देवदेवीनां स्थानके चासनेऽपि वा ।
ऊर्ध्वकायसमं कुर्यात्पद्मासनविशालकम् ॥ ३४ ॥
जान्व (न्) र्ध्वात्केशपर्यन्तं तत्समं त्रिसुत्राविति ।
मानयेज्जानुबाहो तु बाहुबाह्यं तु तत्समम् ॥ ३५ ॥
बाहुजानुद्वयं चैव सव्यापसव्यं मानयेत् ।
मेढ्रान्तं गुल्फस्याञ्चान्तं ह्यन्तरं तु षडङ्गुलम् ॥ ३६ ॥
श्रोणिकूर्परपार्श्वे तु चान्तरं तु षडङ्गुलम् ।
प्रकोष्ठाग्रतलं चैव पश्चात्सी [ञ] परि विन्यस्येत् ॥ ३७ ॥
अर्धान्तव्लासनं चेत्तु ए(चैक) पादं प्रलम्बयेत् ।
तज्जानुपार्श्वकं तस्य ह्य (द्वि) ष्यङ्गुलोनमेव च ॥ ३८ ॥
तत्सूत्राल्लम्बपादादौ [ह्य] न्तरं द्वादशाङ्गुलम् ।
सर्वेषां (र्वीसां) देवदेवीनामेवं प्रोक्तं तदासनम् ॥ ३८ ॥