Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.10
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.10
- Language
- English
v3.c24.s9.10
दक्षिणे कर्मकारस्य तत्र श्रेण्यालयं भवेत् ।
उत्तरे चाग्निदेशे वा पेटिकारांलयं भवेत् ॥ १२५ ॥
पश्चिमे पूर्वके वाऽपि शस्त्रकर्मकरालयम् ।
उत्तरे चर्मकारस्य तच्छ्रेण्यालयमेव वा ॥ १२६ ॥ @H 252
अन्यथा(दा)वरणाः(याम्) सर्वमन्य[त्]कर्मोपजीविनाम् ।
एवं नरालयं प्रोक्तं देवानामधुनोच्यते ॥ १२७ ॥
भार्यादिषु चतुर्दिक्षु ग्रामस्यापि चतुर्दिशि ।
एवं यथेष्टदिग्देशे विष्णोधिष्ण्यं प्रकल्पयेत् ॥ १२८ ॥ @H 256
अथवा बहिरङ्गे तु चेष्टदिग्विष्णो(ष्णो)रालयम् ।
इन्द्रादिषु चतुर्दिक्षु विष्णुस्थानं तु राक्षसे ॥ १२६ ॥
पूर्वके श्रीधरं प्रोक्तं दक्षिणे वामने तथा ।
पश्चिमे वासुदेवं वा चादिविष्णुं जनार्दनम् ॥ १३० ॥ @H 260
उत्तरे केशवं प्रोक्तं नारायणमथापि वा ।
अन्ततः प्रागुत्तरे देशे विष्णुमूर्तिर्(तिं) यथेष्टकम् ॥ १३१ ॥
पितृदेवेशकोणे वा य(त)था नृसिंहालयं भवेत् ।
अग्निकोणे य(त)था रामं गोपालालयमेव वा ॥ १३२ ॥ @H 264
मित्रे च त्रितलं कुर्यात्स्थानकं चादिभूमिके ।
द्वितीयं(ये) चासनं प्रोक्तं तृतीये शयनं भवेत् ॥ १३३ ॥
अथवा स्थानकं चोर्ध्वे शयनं मूलकक्षले ।
इष्टदिग्विष्णुहर्म्याणां द्वारं कुर्याद्विचक्षणः ॥ १३४ ॥ @H 268
ग्रामस्याभिमुखं विष्णुं नरसिंहं पराङ्मुखम् ।
लक्ष्मी नृसिंहश्चैवाऽपि ग्रामस्याभिमुखो भवेत् ॥ १३५ ॥
रुद्रं रुद्रजये वाऽपि इ(त्वि)न्द्रश्चेन्द्रजयेषु च ।
आपवत्सा(त्सा)पवत्सश्च सावित्र्य(त्र)श्चा(अ) सान्द्रके(सवित्रके) ॥ १३६ ॥ @H 272
ईशे वाऽथ जयन्ते वा पर्जन्यस्य पदेऽपि वा ।
एवमीशालयं कुर्याद्ग्रामस्य तु पराङ्मुखम् ॥ १३७ ॥
पूर्वके पश्चिमे वाऽपि तत्रैवाभिमुखं भवेत् ।
अन्य[त्]सकलरूपाणां हर्म्यद्वारं यथेष्टतः ॥ १३८ ॥ @H 276