Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.11
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.11
- Language
- English
v3.c24.s9.11
स्वकर्णी वाऽपि दौवारि[के] सुब्रह्मण्यालयं भवेत् ।
अथवा जिनालयं स्यात्सुगतालयमेव च ॥ १४०॥
चतुर्दिक्षु विदिक्ष्वपि मध्ये वैनायकालयम् ।
गन्धर्वे(र्वे) भृङ्गराजे वा मार्गकाराsubscriptionलयं भवेत् ॥ १४१॥
मुख्ये वाऽथ च भल्लाटे सा(स)रस्वत्यालयं भवेत् ।
अदितौ वा मृगे [वापि] लक्ष्मीभवनकं स्मृतम् ॥ १४२॥
तत्रैव भुवनादेवीहर्म्यमेवं प्रकल्पयेत् ।
यद्वाऽस्य बहिरङ्गे रक्षार्थं भैरवालयम् ॥ १४३॥
राक्षसे पुष्पदन्ते वा दुर्गायाश्चापि चालयम् ।
तद्ग्रामस्य बहिः सौम्ये कालि(लीं) कोष्ठं प्रकल्पयेत् ॥ १४४॥
प्रामात्क्रोशावसाने स्यात्पूर्वे वा चोत्तरेऽपि वा ।
तत्र चण्डालावांसः स्याच्चोत्तरे च श्मशानकम् ॥ १४५॥
ग्रामस्य चोत्तरे बाह्ये प्रेतभूतांशदण्डकम् ।
ग्रामस्य परितो बाह्ये रक्षार्थं वप्रसंयुतम् ॥ १४६॥
तद्वहिः परिखायुक्तं परितो वप्रवेदिकैः ।
चतुर्दिक्षु चतुष्कोणे सहाद्वारं प्रकल्पयेत् ॥ १४७॥
वृत्तं वा चतुरश्रं वा वास्तुस्याकृतिवप्रयुक्त् ।
पूर्वद्वारमथैशाने चाग्निद्वारं तु दक्षिणे ॥ १४८॥
पितृद्वारं तु तत्रत्थम्वायोर्द्वारं तथोत्तरम् ।
पूर्वपश्चिमयोर्द्वारौ तत(तत्र) सूत्रं तु योजयेत् ॥ १४८॥
दक्षिणोत्तरयोर्द्वारौ तत्र देशे विशेषतः ।
दक्षिणोत्तरकं सूत्रं विन्यसेच्छिल्पिवित्तमः ॥ १५०॥
तस्य सूत्रान्तसत्पूर्वे हस्तं तद्वार(रं) मध्यमे ।
एवं दक्षिणतो द्वारं तद्वि बा(द्वा)रौ तथोक्तवत् ॥ १५१॥
उत्तरे द्वार(रं) तत्सूत्रात्त्र्यङ्गुलावसानकम् ।
चतुर्दिक्षु चतुर्द्वारं युक्तं वा नेष्यते बुधैः ॥ १५२॥
पूर्वे पश्चिमेके वाऽपि द्वारमेतत् (मेकं) द्वयोर्(यम)पि ।
परितश्चतुरश्रामा(गूं)रं कुर्यात्तु सर्वदा ॥ १५३॥