Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.12
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.12
- Language
- English
v3.c24.s9.12
एतत्सर्वं महाद्वारमुपद्वारमिहोच्यते।
नागे वाऽपि सुगे वाऽ[प्य]आदितिश्रो(तो चो)दितोऽपि वा ॥ १५३ ॥
पर्जन्ये वाऽन्तरिक्षे वा पूषे(पूष्णि) वा विवस्वतेऽवा ।
गन्धर्वे भृङ्गराजे वा सुग्रीवे वाऽसुरेऽथवा ॥ १५४ ॥
यथेष्टमेवमुपद्वारं कुर्यात्तल्लक्षणोक्तवत्(र्यादुक्तलक्ष्मवत्) ।
मुख्यके वाऽथ भल्लाटे सुगे चोदितोऽथवा ॥ १५५ ॥
जयन्ते वा महेन्द्रे वा सत्यके वा[ऽप्य] भृगोऽथवा ।
एवमेवं जलद्वारं कुर्यात्तत्र विचक्षणः ॥ १५६ ॥
ब्रह्मण्ये वाऽग्निदेशे वा मित्रे वा मण्डपं भवेत् ।
भूधरे चासुरे वाऽपि सभास्थानं प्रकल्पयेत् ॥ १५७ ॥
नन्द्यावर्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
पद्माख्यं(ख्य)वास्तुविन्याससन्नयं वक्ष्यतेऽधुना ॥ १५८ ॥
दीर्घ(दैर्घ्यं)मायसमं कृत्वा वाह्ये वप्रं सुवृत्तकम् ।
चतुरश्राश्रकं वाऽपि षडश्रं वा विधीयते ॥ १५६ ॥
चण्डितं स्थण्डिलं वाऽपि यथेष्टं पद(दं) विन्यसेत् ।
शूलषष्ठोत(थि) राज्या च नरालंय प्रकारयेत् ॥ १६० ॥
तद्दे(त्तत्तद्दे)शे स[र्वे]दा स्थाप्यं मण्डपं वा सभा भवेत् ।
बहिः(हिश्श्र) सर्वंरथ्येषु( रथ्यासु ) पञ्चैरावर्तकेषु(कासु) च ॥ १६१ ॥
चतुः(तुष्)पञ्च च षट् सप्त चाष्टकं वाऽथ वीथिका ।
मध्ये वीथिं विना कुर्याच्चतुर्दिग्द्वारकल्पनम् ॥ १६२ ॥
एवं तु पद्मविन्यासं शेषं प्रागुक्तवन्नयेत् ।
स्वस्तिकस्यापि विन्याससन्नयं वक्ष्यतेऽधुना ॥ १६३ ॥
यत्तदायामविस्तारे न्यसेत्परमशायिकम् ।
तस्यैशाचपदे चैव रथ्या तत्परितस्तथा ॥ १६४ ॥
तस्यान्तः स्वस्तिकाकारं विन्यसेच्छिल्पि(ल्प)वित्तमः ।
प्राक्प्रत्यक् च समायामं वास्तुमध्ये तु वीथिका ॥ १६५ ॥
दक्षिणोत्तरमायामं पूर्वमध्ये तु वीथिका ।
वीथीम् एतद्वयं प्रोक्तं तन्मध्ये कर्करीकृतम् ॥ १६६ ॥