Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.13

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.13

Language
English

v3.c24.s9.13

उदीच्यां दिशि(मीशे) पर्यन्तं प्राङ्मुखायतवीथिका ।
प्रागादीशा(दि चा) ग्रिपर्यन्तं दक्षिणायतवीथिका ॥ १७७ ॥
दक्षिणादिनैऋतान्तं पश्चिमायतवीथिका ।
पश्चिमाद्वायुपर्यन्तमुत्तरायतवीथिका ॥ १७८ ॥
एतत्तु चतु(स्तू रथ्यामादावृता वीथिका ततः।
एवं तु स्वस्तिकवीथी लाङ्गलाकारवद्भवेत् ॥ १७६ ॥
मध्ये वीथीद्वयो[र] ग्रे [च] तस्य मूलद्वयं बुधैः ।
चतुर्दिक्षु चतुष्कर्णै चतुर्दिक्षु चतुर्मुखम् ॥ १७० ॥
पूर्वोक्तं मध्यरथ्यान्तं चतुष्कर्णावसानकम् ।
इन्द्रादीशानपर्यन्तं मध्यं सोमावसानकम् ॥ १७१ ॥
तत्त(_)योर्मध्यदेशे तु प्राक्प्रत्यक् दिग्गतायतम् ।
बाह्यो(ब्रह्मो)न्द्रानलयाम्यं [यु] त्वयोर्मध्यदेशके ॥ १७२ ॥
दक्षिणोत्तरयोर्दीर्घा वीथीरेतत् प्रकल्पयेत् ।
ब्राह्मयां याम्याश्च(न्यां च) नैऋत्यां वारुण्यान्तःप्रदेशकम् ॥ १७३ ॥
पूर्वपश्चिमदीर्घा(र्घाः)च वीथोरे वं तु कारयेत् ।
वायुवारुणसोमेषु[पु] ब्रह्मणा न्तं पदे तथा ॥ १७४ ॥
दक्षिणोत्तररभ्यं तत्तत्संख्या [च] यथेष्टकम् ।
एवं वीथी द्विपचं( चा) स्यान्मध्यरथ्ये न पञ्चकम् ॥ १७५ ॥
तस्य मूलाग्रयो[र्]देशे क्षुद्रमानं प्रकारयेत् ।
बाह्यवीथी द्विपक्षं( चा) स्यात्तद्बहिह्यावृतं बुधैः ॥ १७६ ॥
वप्रांशभित्तिरक्षार्थं परितः परिखान्वितम् ।
स्वस्तिकाग्रं चतुर्दिक्षु द्वारं तेषां प्रकल्पयेत् ॥ १७७ ॥
एवं चाष्टमहाद्वारं दिक्षु दिक्षु द्वयं ततः ।
भृगे चैवान्तरिक्षे वा भृङ्गराजभृशे तथा ॥ १७८॥
शो षे वाऽपि च रोगे वा चादितिम् (तौ) चोदितेऽपि वा ।
एवमेतदुपद्वारं कुर्यात्तत्र विचक्षणः ॥ १७६ ॥
महाद्वारं तु सर्वेषां लाङ्गलाकारसन्निभम् ।
कपाटद्वयसंयुक्तं द्वाराणां तत्पृथक् पृथक् ॥ १८० ॥