Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.14
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.14
- Language
- English
v3.c24.s9.14
अन्तर्वप्र(प्रं)बहिर्भिन्तिश्चेद् दिगता चूलिका ।
यन्त्ररुद्रादिकैः सर्वैर्नटेक्षाद्यभययन्त्रकैः [न्त्रैः] ॥ १८१ ॥
सालान्तं वेदिकोर्ध्वं तु युद्धार्थं कल्पयेत सुधीः ।
नानाजातिभिराकीर्णं स्वस्तिकं राजयोग्यकम् ॥ १८२ ॥
एवं तु स्वस्तिकं प्रोक्तं स्थानीयादिषु कारयेत् ।
चतुर्दिंक्षु विदिक्ष्वेव मध्ये वा राजवेश्मकम् ॥ १८३ ॥
मध्ये ब्रह्मपदं त्यक्त्वा आ(चा)र्यादौ च चतुष्पदे ।
यथेष्टं राजसदनं स्थानीये सर्वभूमिकम् ॥ १८४ ॥
आगते वारुणे वेश्म संग्रामे च यमे पदे ।
विजये सौम्यदेशे च तथे(थैवे)न्द्रजयेऽपि वा ॥ १८५ ॥
स्थानीये चाधिराजस्य मित्रे वारुणे(ण) एव च ।
आगते स्वस्वते चा(विवस्वत्य)पि संग्रामे चापि सौम्यके ॥ १८६ ॥
विजये चार्कभागे वा चेन्द्रस्थाने गृहं भवेत् ।
स्थानीयेऽपि नरेन्द्रस्य वेश्म मित्रपदेऽपि वा ॥ १८७ ॥
विवस्वति पदे वाऽपि तथैवार्य्यपदेऽपि वा ।
आगते तु नरेन्द्रस्य संग्रामे चेन्द्रराजके ॥ १८८ ॥
विजये रुद्रराजश्च(जये च) सदनं कल्पयेत्सुधीः ।
पाष्णिर्य्याकादिभूपानां स्थानीयादिचतुष्टये ॥ १८९ ॥
आर्यादिषु चतुर्दिंक्षु नैव कुर्यात्तु विश्वतः ।
एवमेव प्रशस्तव्यं शिल्पि(ल्प)शास्त्रोक्तवत्कुरु ॥ १९० ॥
मित्रे च वारुणे चापि विवस्वे(स्वदि)न्द्रमहेन्द्रके ।
एवं तु विष्णुधिष्ण्यं स्यात्स्थानीयादिचतुष्टये ॥ १९१ ॥
इन्द्रे चेन्द्रजये वाऽपि रुद्रे रुद्रजयेऽपि वा ।
आपवत्सापवत्स(त्स्य)योरपि चै(यांश्रौ)शे वाऽपि जयन्तके ॥ १९२ ॥
एवमीशालयं प्रोक्तं कुर्याद्देवं बहिर्मुखम् ।
बौद्धं वायुपदे चैव नैर्ऋत्ये तु जिनालयम् ॥ १९३ ॥
भृङ्गराजे [तु] विवधे वा हर्म्यं कुर्यात्तु नागरे(रो वा) ।
चतुर्दिंक्षु बहिर्द्वारं पार्श्वे च भैरवालयम् ॥ १९४ ॥