Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.15

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.15

Language
English

v3.c24.s9.15

चतुर्दिक्षु विदिक्ष्वपि दुर्गाङ्गं(ङ्ग)गणपालयम् ।
सुभोवस्य पद चैव षण्मुखस्यालयं भवेत् ॥ १६५ ॥
अम्नि(ग्नी) पूषपदे वाऽपि स्वरदेवालयं भवेत् ।
आदित्ये तु पदे वाऽपि भास्करस्यालयं भवेत् ॥ १६६ ॥
सौम्यके वाऽपि मुख्ये वा भुवनेशालय भवेत् ।
तत्तत्पदे [च] मध्ये तु विष्णुरुद्रालयं भवेत् ॥ १६७ ॥
एतानि स्थानानि(स्थानान्येतानि) परितो नराणां सदनं भवेत् ।
अन्तर्वीथी चैकपचं (चा) बाह्यवीथी द्विपचकम् (का) ॥ १६८॥
एवमालयवास्तु स्याद्वाह्ये पञ्चाभिरक्षयात ।
एवमन्तर्गतान्देवान् बहिरङ्गं यथेच्छया ॥ १६६ ॥
शुद्धा चैव प्रतिष्ठा चेल्लिङ्गपाशुपतं तथा ।
नगर्यां तत्प्रतिष्ठे(ष्ठा) तु चोक्तवत्स्थापनं भवेत् ॥ २०० ॥
अन्येषां सर्वलिङ्गानां नगराणां बहिरङ्गतः(भवेत्) ।
वैखानसप्रतिष्ठा चेदन्तस्स्थापनमिष्यते ॥ २०१ ॥
विष्णुदेवैरि (वस्ये) ति प्रोक्तं पाञ्चरात्रं (त्रो) बहिर्भवेत् ।
दुर्गां गणपतिं चैव बौद्धं जैनं (न) गतालयम् ॥ २०२ ॥
अन्येषां षण्मुखादीनां स्थापयेन्नगराद्बहिः ।
तत्तद्देवाल्यं वाऽपि कुर्याद्दोषो न विद्यते ॥ २०३ ॥
अपि सर्वेषु नगरेषु संस्थापनमिष्यते ।
नगरस्य बहिश्चोदक्पूर्वे वाऽप्यतिदूरतः ॥ २०४ ॥
चामुण्डालयं [च] कुर्यादुत्तराभिमुखं तथा ।
तस्य (तस्माद्) देवात्सयात्पूर्वं चण्डालकुटिकान्वितम् ॥ २०५ ॥
पूर्वे चोत्तरदेशेऽथ पश्चिमे वाऽथ नैर्ऋते ।
नगरात्तु बहिर्देशे तत्सेनालोकनाथकम् ॥ २०६ ॥
उत्तुङ्गवेदिकाचो(को)ध्वें [पि] चोक्तवन्मण्डपं भवेत् ।
शेषं प्रागुक्तवत्कुर्याद्युक्तया च शिल्पि (ल्प) वित्तमः ॥ २०७॥
प्रस्तरस्य तु विन्यासल्लक्षणं वक्ष्यतेऽधुना ।
आयतं वा समं वाऽपि प्रस्तरस्याकृतिस्तथा ॥ २०८॥

Linked texts (1)