Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.16
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.16
- Language
- English
v3.c24.s9.16
नृपाणां वाऽथ वैश्यानां योग्यमुक्तं पुरातनैः ।
नन्दनन्दपदं वाऽपि चण्डितं स्थण्डिलं तु वा ॥ २०६ ॥
तद्यथेष्टपदं शिल्प्य(ल्पो) ग्रामे च परिकल्पयेत् ।
पैशाचेऽथपदं चैव महारथ्या द्विपञ्चयुक् ॥ २१० ॥
एतत्तु परितः कुर्यात्तस्यान्तः प्रवि[दि]ष्टके ।
पेचकं वाऽथ पीठं वा रथ्यायुक्तं तु विन्यसेत् ॥ २११ ॥
अथवा तन्महापीठे तत्र संयुक्तवीथिका ।
पूर्वपश्चिममायामं दक्षिणोत्तरदीर्घकम् ॥ २१२ ॥
तन्मध्ये चैकवीथी स्यात्पैशाचाख्ये पदे बुधः ।
कृत्वा पीठपदे चैक(कां) मध्ये वीथीं न कारयेत् ॥ २१३ ॥
पूर्ववद्दिक्षु चायामं द्विदिरथ्यां प्रकल्पयेत् ।
महापीठपदे रथ्या दिक्षु दिक्षु त्रयं(यी) तथा ॥ २१४ ॥
तेषामेव महारथ्यास्तस्मिन् विस्तारमुच्यते ।
षट्सप्ताष्टकषण्ढं वा नन्दनाटकरुद्रकम् ॥ २१५ ॥
एतत्सर्वं (अयं सर्वः) महावीथीविस्तारः परिकीर्तितः ।
यत्पदे तत्पदं ज्ञात्वा तत्तत्प्रत्येक(कं) तत्पदे ॥ २१६ ॥
पुराकृतं पदं न्यस्य रथ्यान्तं परिकल्पयेत् ।
तत्पैशाचपदे देशे चावृता वीथिका भवेत् ॥ २१७ ॥
तद्रथ्यान्तः प्रदेशं तु प्रागुदगायते तथा ।
त्रिपञ्चसप्तसंख्या वा अ(चा)ष्टमं च व(व)न्ध्यं भवेत् ॥ २१८ ॥
एकद्वित्रिचतुर्वाऽपि तिर्यक्कार्गं तथैव च ।
चतुष्कोष्ठं तु युक्तं चेच्चतुष्कं चैकाष्टसन्धिभिः ॥ २१९ ॥
नवकोष्ठकयुक्तं चेच्चतुष्कं च चतुष्टयम् ।
सन्ध्या(द्विर)ष्टकसमायुक्तं सन्धिभिर्द्वाद(त्रिद्वाविंशे)शैर्युतम् ॥ २२० ॥
चतुष्कं नवकं कुर्याद्देवमन्तःप्रदेशके ।
तत्तत्प्रकोष्ठके प्रत्यक् प्रत्यग्भामाकृतिस्तथा ॥ २२१ ॥
प्रागुक्तवत्प्रदेशे तु देवतास्थापनं बुधैः ।
मण्डपादि च भूपानां वेश्म कुर्यात्तु पूर्ववत् ॥ २२२ ॥