Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.75
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.75
- Language
- English
v1.c63.s2.75
त्रिसप्तपञ्चमीर्भत्तुंः हतारा विवर्जयेत् ।
आद्याद्वितीयाऽन्यासु ताराः स्युस्हि मध्यमाः ॥
तथा ऋक्षेऽपि चानिष्टेचन्द्रेऽष्टम गतेऽपि च ।
नयते हरितां तारा धनुःपक्षवती (?) नृणाम् ॥
सुरराक्षसमत्त्यांख्या ऋक्षाणां स्युर्गणास्त्रयः ।
यद्गणक्षों भवेद् भर्त्ता तद्गणक्षं गृहं शुभम् ॥
मृगाश्विरेवती स्वात्यो मैत्रं पुष्यपुनर्वसू ।
हस्तः श्रवण इत्येष देवाख्यो नवको गणः ॥
विशाखा कृत्तिकारलेषा नैऋतं वारुणं मघा ।
चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः ॥
आर्द्राभरणीरोहिण्यस्तिस्रः पूर्वांस्तयोत्तराः ।
इति नक्षत्रनवकं विज्ञेयं मानुषे गणे ॥
गणसाम्यं शुभा तारा, यस्य, भर्त्तुर्व्ययोऽल्पकः ।