Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.76

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.76

Language
English

v1.c63.s2.76

आयो व्ययश्च योनित्वं ताराश्च भवनांशकाः ।
गृहनामेति चिन्यानि करणानि गृहस्य पदू ॥
त्रिभिः शुभैः शुभं वेश्म द्वाभ्यानेकेन चाशुभम् ।
करणैरनुराधैस्तु शुभैरतिशुभं भवेत् ॥
न समाण्यव्ययं वेश्म नाल्पयं नाधिकव्ययम् ।
न द्वितीयांशमसद्गद्योनिभं च न कारयेत् ।
भर्त्तृ तुल्याभिधानं च गृहं दूरात् परित्यजेत् ॥
समसप्तकमेद्यक्षं तृतीयैकादशं तथा ।
चतुर्थदशकं चेति कर्तव्यं मन्दिरं सदा ॥
षट्कोष्ठकं त्रिकोणं च वर्ज्य द्विश्र्वांशं तथा ।
षट्कोष्ठके मृतिर्देन्धं वियोगश्च भवेद् गृहे ॥
त्रिकोणे वसतां दुःखं वैधव्यं च प्रजायते ।
द्विश्र्वादंशे पुत्रपौत्रगुरुबन्धुधनक्षयः ॥
हतेऽष्टभिः क्षेत्रफले खनेत्रशशिभाजिते ।
शेषं जीवितमेतस्मिन् पञ्चभक्ते भवेन्म्रुतिः ॥
सभुजं सहषड्दारु मुञ्जमण्डलसंयुतम् ।
आयामन्तः पृथुत्वाच्च मानं कृत्वा विभाजयेत् ॥
सर्वतः शोधितं वास्तु यद्यलम्यङ् मितं भवेत् ।
स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥
अर्चितं वर्धते वास्तु नारीभिः पशुभिर्नरैः ।
कीर्त्त्यायुर्धनधान्यैश्च प्रमोदैस्तु महोत्सवैः ॥