Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.84

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.84

Language
English

v1.c63.s2.84

तदनुक्रमकं वक्ष्ये यदुक्तं परमेश्वरैः ॥
भौमस्य वृश्चिको मेषो भार्गवस्य तुलावृषौ ।
बुधस्य कन्यामिथुने सोमस्यैवं तु कर्कटः ॥
सिंहः सूर्यस्य क्षेत्रं स्याद् धनुर्मीनौ तथा गुरोः ।
शनेश्च कुम्भमकरौ गृहक्षेत्राधिपा इति ॥
न पीडयन्त्यात्मक्षेत्रं स्नेहिनः क्षेत्रपालकाः ।
रिपुगृहं पीडयन्ति भस्मीकुर्वन्ति विग्रहे ॥
स्यात्सूर्यमन्दयोर्वैरं तथा च कुजमन्दयोः ।
गुरुशुक्रयोः स्याद्वैरं चन्द्रेण च बुधस्य तु ॥
रखेरङ्गारकस्यैव मैत्री च गुरुचन्द्रयोः ।
एषां त्रयाणां वै मैत्री ह्यन्येषां तु न विद्यते ॥
ग्रहाराश्चत्वार एकत्र त्रय एकत्र संस्थिताः ।
उभयोरन्तरं घोरं कालानल इवापरः ॥

Cites (1)