Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.85
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.85
- Language
- English
v1.c63.s2.85
नक्षत्रे वसुभिर्भक्ते यच्छेषं व्ययमादिशेत् ।
अष्टौ व्ययास्तथाप्रोक्ता आयेष्वष्टसु योजिताः ॥
आयाश्च कथिताः पूर्वं व्ययानां लक्षणं शृणु ।
एकैका यस्य संस्थाने व्ययाश्च त्रिविधाः स्मृताः ॥
समो व्ययः पिशाचश्च राक्षसस्तु व्ययोऽधिकः ।
व्ययो न्यूनो यक्षश्चैव धनधान्यकरः स्मृतः ॥
अनायव्यये कर्तरि आयहीने व्यये तथा ।
व्ययाधिके विनश्यन्ति अचिरेणैव सर्वदा ॥
ध्वजादिष्वष्टस्वायेषु ह्यष्टौ शान्तादिका व्ययाः ।
प्रत्येकव्ययसंस्थान आयौ न्यूनेतरः स्मृतः ॥
शान्तः पौरः प्रद्योतश्च श्रियानन्दो मनोहरः ।
श्रीवत्सो विभवश्चैव चिन्तात्मा च व्ययाः स्मृताः ॥
आयस्थाने व्ययो योज्यो ह्यप्रशस्तो व्ययोऽधिकः ।
व्ययो न्यूनस्तथा श्रेष्ठो धनधान्यकरः स्मृतः ॥
स्मृतो ध्वजे शुभः शान्तः नित्यं कल्याणकारकः ।
भोज्यं पूजाफलं शान्तिर्नृत्यं गीतं सुरालये ॥
धूमस्थाने यदा शान्तो हेमरत्नादिसम्भवः ।
अग्न्युपजीवकानां च धातुद्रव्यफलप्रदः ॥
सिंहस्थाने च पौरश्चेत् सिंहवच्च पराक्रमैः ।
निहन्ति रिपुसैन्यानि ह्यामस्थाने महोत्सवाः ॥
प्रद्योतः श्वानसंस्थाने नित्यं भोगसुखावहः ।
शय्यासु वेश्मनि तथानेकभोगादिकामदः ॥