Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.72

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.72

Language
English

v1.c66.72

तैतिलाश्च नराश्चैव यस्मिन्यस्मिन् प्रतिष्ठिताः ।
तद्वस्तु सूरिभिः प्रोक्तं तथा वै वक्ष्यतेऽधुना ॥
धराहस्यादि यानं च पर्यङ्कादि चतुर्विधम् ।
धरा प्रधानवस्तु स्यात्तत्तज्जातिषु सर्वशः ॥
विमानादीनि वास्तूनि वस्तुतः वस्तुसंश्रयात् ।
तान्येव वस्तु चैवेति कथितं वास्तुविद्बुधैः ॥
प्रासादमण्डपं चैव सभाशालाप्रपास्तथा ।
अरङ्गमिति चैतानि हर्म्यमुक्तं पुरातनैः ॥
आदिकं स्यन्दनं शिल्पिन् शिविका च रथं तथा ।
सर्वं यानमिति ख्यातं शयनं वद्यते तथा ॥
पञ्जरं मञ्जली मञ्चं काकाष्टं फलकासनम् ।
तथैव बालपर्यङ्कपय्यंङ्कमिति कथ्यते ॥
कुम्भपादमिति प्रोक्तं तस्मादुच्चं प्रवेशनम् ।
तदेव हरिकाकर्णे सर्वाङ्गं पद्मवाजनम् ॥
वज्रपादमिति प्रोक्तं युक्त्या कुर्यान्मनोहरम् ।
अथवा मध्यकर्णौ चोर्ध्वादी पद्मवाजनम् ॥
पद्मपादमिति प्रोक्तं सर्वालङ्कारसंयुतम् ।
चतुः षट्पाद्युक्तं वा देवानां च द्विजातीनाम् ॥
देवानां भूतसिंहं वा पादमध्ये प्रयोजयेत् ।
नृपाणां सिंहपादं स्यात् शेषाणां पूर्ववद्भवेत् ॥