Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.73
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.73
- Language
- English
v1.c66.73
देवानां चक्रवर्त्यादिनृपावासकयोग्यकम् ।
सिंहासनस्य मानं च लक्षणं वक्ष्यतेऽधुना ॥
प्रथमाभिषेकयोग्यं स्यात्प्रथममासनमेव च ।
मङ्गलाख्याभिषेकस्य मङ्गलासनमीरितम् ॥
वीरात्वाभिषेकस्य च वीरासनमुदीरितम् ।
विजयाख्यस्याभिषेकस्य विजयासनमीरितम् ॥
एवं चतुर्विधं प्रोक्तं भूपानामासनं भवेत् ।
अस्त्रग्राहस्य नृपतेः सिंहपादं न कारयेत् ॥
क्षुद्रभूपविशां शूद्रैः उपपीठादि योजयेत् ।
चतुरस्रसमायुक्तं सर्वेषां सर्वमासनम् ॥
देवानां मौलिनामुक्तं युक्तं सर्वेषु योग्यकम् ।
प्रथमासनादि सर्वेषां भूपानां तान्युदीरितम् ॥
षट्पादेन समायुक्तं सिंहरूपं प्रकल्पयेत् ।
तत्सर्वं प्राङ्मुखं कुर्याद्विपरीतं चेद्विनाशनम् ॥