Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.80

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.80

Language
English

v2.c83.80

स्निग्धं विशालमुत्तुङ्गमुरश्चेद राजलक्षणम् ।
सिरालं विषमं निम्नं वक्षश्चेद विपदास्पदम् ॥
समौ चेच्चूचुकौ भूपा लम्बितौ प्रेष्यतां गताः ।
अदृश्यौ तन्तुनाशादृशौ विषमौ दुःखदौ स्मृतौ ॥
उच्चकक्षसमायुक्ता धनधान्यविवर्धनाः ।
समकक्षश्च तत्तुल्यो निर्धमो निम्नकक्षतः ॥
दुःखी विषमकक्षःस्यादथ पृष्ठस्य लक्षणम् ।
अलग्नं मांसलं पृष्ठं मग्नवंशं शुभावहम् ॥
निन्दितं विपरीतं चेत् दुःखदारिद्र्यकारणम् ।
उन्नतैर्जत्रुभिर्ज्ञेयं धनधान्यादिभोगदम् ॥
तैरेव विषमैनिम्नैर्विज्ञेयं धनवर्जितम् ।
सुश्लिष्टौ विपुलावंसौ निर्बलीकौ सुखावहौ ॥
रोमसौ वलिसंयुक्तौ निर्मासौ दुःखदायिनौ ।
बाहू करिंकराकारौ बरावाजानुलम्बिनौ ॥
गूढसांश्लिष्टसन्ध्य़ाढ्यौ विपरीतौ विवर्जितौ ।
लाक्षारुणं पीवरं च मध्ये निम्नं मनागपि ॥
तलं शुभदमाख्यातं विपरीतं विनाशकृत् ।
उन्नते दानशीलत्वं शुष्के दारिद्र्यदं भवेत् ॥
विषमे तु तले तद्वत् पापंदं व्याघ्रपाणिकम् ।
हस्तस्याङ्गुलयो दीर्घाश्चिरजीवी नरःस्मृतः ॥
वैदुष्यदा विवलिकाःस्थूला दारिद्र्यदायिनः ।
मूढत्वदा बहिर्नता पूर्वोक्तान्नखरे वदेत् ॥
शूरः स्यान्महिषग्रीवः कम्बुग्रीवः क्षमापतिः ।
शुष्कग्रीवो भवेन्निःस्वः समग्रीवः समो भवेत् ॥
अभिन्नाग्रं मृदु स्निग्धं घनं श्मश्रु प्रशस्यते ।
आरक्तं विषमं कूर्चं स्थूलरोममशोभनम् ॥
पूर्णचन्द्रसमाकारं वदनं त्वतिशोभनम् ।
निःस्वाः स्युर्दीर्घवदनाः समाना वर्तुलं मुखम् ॥
चतुरश्रानना धूर्ता त्रिन्यस्यः पुत्रवर्जितः ।
भीतास्यः पापकारी स्यादेवं वदनलक्षणम् ॥
रक्ता स्निग्धा शुभा जिह्वा पापी स्याच्छ्यार्माजह्नकः ।
स्थूलजिह्वश्च तत्तल्यः कृष्णजिह्वस्तथैव च ॥
कृष्णा च कर्बुराधास् तात् रसना दुःखदा सदा ।
सुवर्णं रक्तवर्णं च तालु दुःखतरं मतम् ॥
लम्बमांसलकर्णा स्युः पापिनः शुष्ककर्णकाः ।
शुकनासः सुखी प्रोक्तश्चिरायुः शुष्कनासिकः ॥
वक्राग्रा धनदा नासा क्रूरा दक्षिणवक्रका ।