Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.52

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.52

Language
English

v2.c84.52

वर्तुलाक्षास्तथा कार्या भीमवक्त्रस्तथैव च ।
तेषामभ्युद्धतो वेषः कर्तव्यः पृथिवीपते ॥
रुद्रप्रमाणाः कर्तव्यास्तथा विद्याधरा नृप ।
सपत्नीकाश्च ते कार्या माल्यालङ्कारधारिणः ॥
खड्गहस्ताश्च ते कार्या गगने वाथ वा भुवि ।
मालव्यपरिमाणेन किन्नरोरगराक्षसाः ।
रुचकस्य प्रमाणेन यक्षाः कार्या नराधिप ।
शशकस्य प्रमाणेन प्रधानं मानवं लिखेत् ॥
पिशाचा वामनाः कुब्जाः प्रमथाश्च महीभुजः ।
मानन्नियमतः कार्यं रूपन्नियमतस्तथा ।
स्वानुरूपप्रमाणाश्च सर्वेषां योषितः स्मृताः ।
किन्नरा द्विविधाः प्रोक्ता नृवक्त्रा हयविग्रहाः ॥
नृदेहाश्चाश्ववक्त्राश्च तथान्ये परिकीर्तिताः ।
अश्ववक्त्रास्तु कर्तव्याः सर्वालङ्कारधारिणः ॥
गीतवाद्यसमायुक्ता द्युतिमन्तस्तथैव च ।
उत्कचा राक्षसाः कार्या विकलाक्षा विभीषणाः ॥
देवाकाराश्च कर्तव्या नागाः फणविराजिताः ।
सालङ्काराः स्मृताः सर्वे यक्षास्तेऽभिहिता मया ॥
सुराणां प्रमथाः कार्याः प्रमाणेन विवर्जिताः ।
पिशाचाश्च तथा कार्या प्रमाणेन विवर्जिताः ॥
नानासत्त्वमुखाः कार्या देवतानां तथा गणाः ।
नानावेशा महाराज नानायुधधरास्तथा ॥
नाना क्रीडाप्रसक्ताश्च नाना कर्मकरास्तथा ।
एकरूपास्तु कर्तव्या वैष्णवामान्तथा गणाः ॥
तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च ।
वासुदेवसमाः कार्या वासुदेवगणाः शुभाः ॥
संकर्षणेन सदृशास्तद्गणाश्च तथा स्मृताः ।
प्रद्युम्नेनानिरुद्धेन तद्गणाः सदृशास्तथा ॥
तत्प्रभावाः स्मृताः सर्वे तदायुधधरास्तथा ।
नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च ॥
तथा मरकताकाराः सिन्दूरसदृशप्रभाः ।
रुचकस्य तु मानेन वेश्याः कार्यास्तथा स्त्रियः ॥
वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसम्मतम् ।
मालव्यमानतः कार्या लज्जावत्यः कुलस्त्रियः ॥
नात्युन्नतेन वेशेन सालङ्कारास्तथैव च ।
दैत्यदानवयक्षाणां राक्षसानां तथैव च ॥
रूपवत्यस्तथा कार्या पत्न्यो मनुजसत्तम ।
मातरः स्वेन रूपेण तथा कार्या नराधिप ॥