Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.53

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.53

Language
English

v2.c84.53

पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुताः ।
विभर्तृकास्तु कर्तव्या स्त्रियः पलितसंयुताः ॥
शुक्लवस्त्रपरीधानाः सर्वालङ्कारवर्जिताः ।
कुब्जा वामनिका वृद्धा तथा रूपवती भवेत् ॥
राजस्त्रीणां परीवारे वृद्धः स्यात्कञ्चुकी पुनः ।
रुचकस्य तु मानेन वैश्यमानं विधीयते ॥
शशकस्य तु मानेन शूद्रमानं तथैव च ।
यथा जात्यनुरूपेण वेषेण मनुजेश्वर ॥
दैत्यादियोषितां कार्याः परिचारस्त्रियः सदा ।
महाशिरा महोरेस्को महानासो महाहनुः ॥
पीनस्कन्धभुजग्रीवः परिमाणेन चोच्छ्रितः ।
त्रितरङ्गललाटश्च व्योमदृष्टिर्महाकटिः ॥
दृप्तश्चित्रविदा कार्यः सेनायाः पतिरूर्जितः ।
योधा कार्या महाराज प्रायशो भ्रुकुटीमुखाः ॥
किञ्चिदुद्धतवेषाश्च कार्याश्चोद्धतदर्शनाः ।
अभ्युद्गताश्च कर्तव्या आयुधीयाः पदातयः ॥
खड्गचर्मधराः कार्याः कर्णाटकवपुर्धराः ।
वरबाणधराः कार्या नग्नजङ्घाश्च धन्विनः ॥
नात्युद्धतेन वेषेण सोपानत्कास्तथैव ते ।
यथोक्तलक्षणाः कार्याः कुञ्जरास्तुरगादयः ॥
हस्त्यारोहास्तु कर्तव्या मुहुः श्यामास्तु वर्णतः ।
कैश्चैश्च जूटभरैः सालङ्कारास्तथैव च ॥
उदीच्यवेषाः कर्तव्यास्तुरगाणां तु सादिनः ।
उद्धतेन तु वेषेण कर्तव्या बन्दिनस्तथा ॥
सिरादर्शितकण्ठाश्च तथैवोन्मुखदृष्टयः ।
आह्वानकास्तु कर्तव्याः कपिलाः केकरेक्षणाः ॥
किञ्चिद्वानवसदृशाः प्रायशो दण्डपाणयः ।
न केकरान्न कपिलान्युद्धे द्वंद्वान्तमालिखेत् ॥
नात्युन्नतेन वेषेण न च शान्तेन शस्यते ।
पार्श्वबद्धेन खड्गेन प्रतीहारस्तु दण्डवान् ॥
संवेष्टितशिरस्काश्च कर्तव्या वणिजस्तथा ।
गायना नर्तका ये वा वाद्यवादविशुद्धये ॥
उद्धतेन तु वेषेण कार्यास्ते मनुजोत्तम ।
आसन्नपलिताः कार्याः स्वभूषणविभूषिताः ॥
पौरजानपदाः श्रेष्ठाः शुभ्रवस्त्रविभूषणाः ।
प्रसृतप्रवणाः प्रह्लाः स्वभावप्रियदर्शनः ॥