Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.54

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.54

Language
English

v2.c84.54

स्वकर्मोपस्करव्यग्रः कार्यः कर्मकरो जनः ।
प्रांशवः पीनगात्राश्च पीनग्रीवशिरोधराः ॥
उग्राश्च नीचकेशाश्च मल्लाः कार्यास्तथोद्धताः ।
वृषाः केसरिणश्चैव याश्चान्याः सत्त्वजातयः ॥
यथाभूमिनिवेशास्ते लोकं दृष्ट्वा नराधिप ।
एतद्रूपसमुद्देशमदृष्टानां तवेरितम् ॥
दृष्टं सुसदृशं कार्यं सर्वेषामविशेषतः ।
चित्रे सादृश्यकरणं प्रधानं परिकीर्तितम् ॥
बुद्ध्या रूपं यथावेशं वर्णं च मनुजोत्तम ।
देशे देशे नराः कार्या यथावृत्तसमुद्भवाः ॥
देशं नियोगं स्थानं च कर्म बुध्वा च यत्नतः ।
आसनं शयनं यानं वेशं कार्यं नराधिप ॥
सरितां सशरीराणां वाहनानि प्रदर्शयेत् ।
पूर्णकुम्भकराः कार्यास्तथा नामितजानवः ॥
शैलानां शिखरं मूर्ध्नि दर्शयेन्मनुजोत्तम ।
द्वीपानां च करैः कार्यं तथा भूमण्डलं शुभम् ॥
. . . . . राजंस्तथाशिखरपाणयः ।
रत्नपात्रकराः कार्याः सागरा मनुजोत्तम ॥
समुद्राणां प्रभास्थाने सलिलं तु प्रदर्शयेत् ।
आयुधानां च तच्चिह्नं किञ्चिन्मूर्धनि दर्शयेत् ॥
निधीनां दर्शयेत्कुम्भं शङ्खं शङ्खस्य दर्शयेत् ।
पद्मं पद्मस्य राजेन्द्र शेषाणामनुरूपतः ॥
कार्यस्यावयवाः कार्याः स्वदेहसदृशाः पृथक् ।
दिव्यानां दर्शयेच्चिह्नमक्षमालां च पुस्तकम् ॥
अतः परं प्रवक्ष्यामि रूपं यद्यस्य दृश्यते ।
आकाशं दर्शयेद्विद्वान्विवर्णं खगमाकुलम् ॥
तथैव दर्शयेद्राजंस्तारकामण्डितं दिवम् ।
भूमिं च जाङ्गलानूपमिश्रां स्वैः स्वैस्तथा गुणैः ॥
पर्वतं तु शिलाजालैः शिखरैर्धातुभिर्द्रुमैः ।
निर्झरैर्भुजगैश्चैव दर्शयेन्नृपसत्तम ॥
वनं नानाविधैर्वृक्षैर्विहङ्गैः श्वापदैस्तथा ।
तोयं च दर्शयेद्विद्वाननन्तैर्मत्स्यकच्छपैः ॥
पद्माद्यैश्च महाराज तथाऽन्यैर्जलजैर्गुणैः ।
देवतावेश्मभिश्चित्रैः प्रासादापणवेश्मभिः ॥
नगरं दर्शयेद्विद्वान् राजमार्गैश्च शोभनैः ।
वमत्या दर्शयेद्ग्रामं किञ्चिदुद्यामभूषितम् ॥