Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.55

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.55

Language
English

v2.c84.55

सर्वेषामथ दुर्गाणां कर्तव्यं दर्शनं तथा ।
स्वभूमिविनिवेशेन वप्राट्टालकपर्वतैः ॥
पण्ययुक्तास्तु कर्तव्यास्तथैवापणभूमयः ।
आधानभूमिः कर्तव्या पानयुक्ता नराकुला ॥
उत्तरीयविहीनांश्च द्यूतसक्तान्प्रदर्शयेत् ।
जिताञ्छोकसमायुक्तान्हृष्टांल्लब्धजयांस्तथा ॥
चतुरङ्गबलोपेतां प्रहरद्भिर्नर्नैर्युताम् ।
मृतावयवरक्ताढ्यां रणभूमिं प्रदर्शयेत् ॥
चिताकुणपसंयुक्तं श्मशानं च तथा नृप ।
युक्तं सभारैरुष्ट्राद्यैर्मार्गं सार्थं प्रदर्शयेत् ॥
सचन्द्रग्रहनक्षत्रां तथा दर्शितलौकिकाम् ।
आसन्नस्करां रात्रिं दर्शयेत्सुप्तमानवाम् ॥
प्राग्रात्रे दर्शयेत्तत्र तथा चैवाभिसारिकाम् ।
सारुणो म्लानदीपश्च प्रत्यूषो रुतकुक्कुटः ॥
कर्मव्यग्रजनप्रायः कर्तव्यो वानरस्तथा ।
द्विजैनियमभिर्युक्तां रक्तां सन्ध्यां प्रदर्शयेत् ॥
तमसो दर्शनं कार्यं वासे संसर्पकैर्नरैः ।
कुमुदानां विकाशे च ज्योत्स्नां चन्द्रे प्रदर्शयेत् ॥
दर्शयेत्सरजस्यं च शय्यां कर्णोत्करावृताम् ।
सद्वृत्तमानवप्रायां वृष्टिं दृष्ट्वाम्प्रदर्शयेत् ॥
प्राणिनां क्लेशसप्तानामादित्येन निदर्शनम् ।
वृक्षैर्वसन्तजैः फुल्लैः कोकिलामधुपोत्कटैः ॥
प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत् ।
क्लान्तैः कार्यं नरैर्ग्रीष्मं मृगैश्छायागतैस्तथा ॥
महिषैः पङ्कमलिनैस्तथा शुष्कजलाशयम् ।
विहङ्गैर्द्रुमसंलीनैः सिंहव्याघ्रैर्गुहागतैः ॥
तोयनम्रघनैर्युक्त्तं सेन्द्रचापविभूषणैः ।
विद्युद्द्योतनैर्युक्तां प्रावृषं दर्शयेत्तथा ॥
सफलद्रुमसंयुक्तां पक्वसस्यां वसुन्धराम् ।
सहंसपद्मसलिलां शरदं तु तथा लिखेत् ॥
सवाष्पसलिलस्थानं तथा लूनवसुन्धरम् ।
सनीहारदिगन्तं च हेमन्तं दर्शयेद्बुधः ॥
हृष्टवायसमातङ्गं शीतार्तजनसङ्कुलम् ।
शिशिरं तु लिखेद्विद्वान्हिमच्छन्नदिगन्तरम् ॥
वृक्षाणां पुष्पफलतः प्राणिनां मदत्तस्तथा ।
ऋतूनां दर्शनं कार्यं लोकान्दृष्ट्वा नराधिप ॥